________________
। पिठिका।
श्रीधीरसुन्दरसू० ॥ आव०अवचूर्णिः!
॥२॥
श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपयलोचनायामागमस्य नित्यत्वात्कतुरभाव एव, तथा चोक्त'-"एषा द्वादशांगी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यतीति ध्रुवा नित्या शाश्वतीत्यादि, पर्यायास्तिकनयमतपर्या
निशान लोचनायां चानित्यत्वादश्यंभावी तत्सद्भावः। तत्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात, सूत्ररचनापेक्षया त्वनित्यत्वात् कथंचित् कर्तृत्वसिद्धिः, तत्र सूत्रकर्तुरनंतरप्रयोजनं सत्त्वानुग्रहः परंपरं त्वपवर्गप्राप्तिः, उक्तं च "सर्वज्ञोक्तोपदेशेन यः सत्त्वानामनुग्रह। करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवं ॥१॥ श्राणामनंतरप्रयोजनमावश्यकश्रतस्कंधार्थपरिज्ञानं परं परं निःश्रेयसावाप्तिः । कथं इह ज्ञानक्रियाभ्यां मोक्षः, सम्यगवबोधपुरस्सरं सावधानवद्ययोगनिवृत्तिप्रवृत्तिभ्यां सवितुः खरकिरणैर्जलार्द्रशाटिकायाः सलिलकणानामिव कर्माणनामवयवशोऽपगमसंभवात , ज्ञानक्रियात्मकं चावश्यकं उभयस्वभावत्वात् , तयोश्च ज्ञानक्रिययोवाप्तिर्विवक्षितावश्यकश्रुतस्कंधश्रवणतो जायते नान्यथा, तत्कारणत्वात्तदवाप्तेः, अन्यथा सम्यग्ज्ञानाभावतः शिष्याणां माक्षपथप्रवृत्युछेदप्रसक्तेः, कारणादेव च कार्यसिद्धेः । ततः श्रोतृणामपि परंपरया मुक्तिभावाद् भवति तेषां परंपरप्रयोजनं निःश्रेयसावाप्तिरिति प्रयोजनवानावश्यकप्रारंभप्रयासः । अभिधेयं सामायिकादि, तेषामेवास्मिन् ग्रंथे सविस्तरमभिधास्यमानत्वात , सम्बन्धस्तु द्विधा उपायोपेयभावः गुरुपर्वक्रमलक्षणच, तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापनमावश्यकमुपायः उपेयं सामायिकादिपरिज्ञानं मुक्तिपदं वा, तस्याप्पतः पारंपर्येण भावात् , तथाहि अस्मात्सम्यक सामायिकाद्यर्थ ज्ञानं भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्य क्रिया प्रयत्नश्च ताभ्यां च प्रकर्षाप्ताभ्यां मुक्तिप्राप्तिरिति ।
-
-
गाथा-१
॥२॥
Jain Education Inte
For Privale & Personal use only
falljainelibrary.org