SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पिठिका। श्रीधीरसुन्दरसू०11 आव०अवचूर्णिः ॥४॥ वाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामशब्दार्थपर्यालोचनानुसारी-इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, अथवा श्रूयतेऽस्मादस्मिन्निति श्रुतं तदावरणकर्मक्षयोपशमस्तजनितं ज्ञानमपि श्रुतं कार्ये कारणोपचारात् , शृणोतीति वा श्रुतं आत्मा, तदनन्यत्वाज्ज्ञानमपिश्रुतं । चः अनयोः स्वामिकालकारणविषयपरोक्षत्वसाध ात्तुल्यकक्षतोद्भावनार्थः, तथाहि य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापीति स्वामिसाधर्म्य', तथा यावामेव मतेः स्थितिकालः तावानेव श्रुतस्यापि, तत्र प्रवाहापेक्षयाऽतीतानागतवर्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु पट्पष्टिः सागरोपमाणि समधिकानि, उक्त च "दो वारे विजया ईसु०" यथा च मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतमपि, यद्वा इन्द्रियानिद्रियनिमित्तमतिज्ञानं तथा श्रुतमपीति करणसार्य, यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतमपि, यथा च मतिज्ञानं परोक्षमेवं श्रुतमपि, एवकार अवधारणे, स च परोक्षत्त्वमनयोरखधारयति, मतिश्रुते एव परोक्षे, नाशेषज्ञानमिति । अथ परोक्षमिति कः शब्दार्थः ?, उच्यते, 'अशुटि व्यासौ' अश्नुते, ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात्पराणि वर्तन्ते, पृथग वर्तत इतिभावः, ताभ्यां यदस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरात्वाद्रूपनिष्पत्तिः । यद्वा परैन्द्रियादिभिः सह उक्षा-सम्बन्धी विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षादात्मना, तत् परोक्षं, धूमादग्निज्ञानवत् , कथमनयोः परोक्षतेति, उच्यते, पराश्रयत्वात् , तथाहि पुद्गलमयत्वात् द्रव्येन्द्रियमनांस्यात्मना पृथग्भूतानि, ततस्तदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात् , किन्तु परंपरयेति, परोक्षता, वैशेषिकादयः प्राहुः-ननु अक्षाणि-इन्द्रियाण्युच्यन्ते ततोऽक्षाणां इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षं-इन्द्रियं प्रति वर्तते इति प्रत्यक्ष तथा च For Private & Personal use only गाया-१ ॥४॥ Jain Education Interne melibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy