________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥६३॥
सर्वेषां परमाणूनां स्कन्धानां च एका वर्गणा, द्विसमयस्थितीनां सर्वेषां द्वितीया वर्गणा, त्रिसमयस्थितीनां तृतीयावर्गणा, एवमेकैकसमयवृध्द्या संख्येयसमयस्थितीनां परमाण्यादीनां संख्येया वर्गणाः, असंख्यसमयस्थितीनां त्वसंख्येयावर्गणाः, भावत एकगुणकृष्णानां परमाणूनां स्कन्धानां च सर्वेषामेका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां परमाण्वादीनां द्वितीया वर्गणा, एवमेकैकगुणवृध्या संख्ये यकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येयाः, अनन्तकृष्णवर्णगुणानामनन्ताः एवं नीललोहितहाग्द्रिशुक्लेषु ४, सुरभीतरयोर्गन्धयोः ६, तिक्तकटुकषायाम्लमधुरेषु पञ्चसु रसेषु ११, कर्कशमृद्गुरुलघुशीतोष्णस्निग्धत क्षेषु अष्टासु स्पशेषु १९, सर्वसंख्यया २०, स्थानेषु प्रत्येकमेकादीनां संख्येयगुणानां संख्येयाः अख्येयगुणानामसंख्येयाः अनन्तगुणानामनन्ताः वर्गणा चान्य:, तया लघुगुरुपर्यायाणी बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां सूक्ष्मपरिणतवस्तूनामेका वर्गणा, एते तु द्वे भवतः प्रकृतोपयोगः प्रदर्श्यते, तत्र समस्तलोकाकाशप्रदेशतिनामेकैकपरमाणूनामेका वर्गणा, समस्तलोकवत्तिनां द्विप्रदेशिकस्कन्धानां द्वितीया, एवं त्रिप्रदेशिकानां तृतीया एवमेकोत्तरया वृद्धय तावज्ज्ञेयं यावत् संख्येयप्रदेशिकस्कन्धानां संख्येयाः असंख्येयप्रदेकशिस्कन्धानामसंख्येयाः अनंतप्रदेशिकस्कन्धानामनन्ताः खलवग्रहणयोग्या वर्गणा विलंध्य विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, तत एकोत्तरप्रदेशवृद्धया बर्द्धमानोः प्रचुरद्रव्यत्वात्सूक्ष्मतरपरिणामत्वाचौदारिकस्याग्रहणप्रायोग्या अनंता वर्गणा भवन्नि, ताथ स्वल्वपरमाणुनिष्पन्नत्वाद्वादरपरिणामयुक्तत्वाच्च वैक्रियग्याप्यग्रहणप्रायोग्याः पुनः प्रदेशवृद्वयाऽनन्तवर्गणाः, ताश्च प्रचुरद्रव्यनिष्पन्नत्वात्सूक्ष्मतरपरिणामोपेतत्वाचौदारिक
॥६३॥
Jan Education Interational
For Private & Personal use only
www.jainelibrary.org