________________
श्रीधीरसुन्दरसू० ओव० अवचूणिः
॥६२॥
तदित्याह-गुरुलध्वगुरुलघु, गुरु च लघु गुरुलघु, तथा न गुरुलघु अगुरुलघु तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघुपर्यायोपेतं यच्च भाषाद्रव्यासन्न तदगुरुलघुपर्यायोपेतं तदपि चावधिज्ञानं च्यवमानं सत्पुनस्तेनैव द्रव्येणोपलब्धेन सता निष्ठा याति, प्रच्यवते इति भावः, तदपि चेत्यत्रापिशब्दो यत्प्रतिपाति तत्रायं नियमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीति संदर्शनार्थः, च एवार्थः अवधिरेव एवं प्रच्यवते ॥३८॥ न शेषज्ञानानीति, कियत्प्रदेश च तद्दव्यं ? यत्तैजसभाषाद्रव्याणामपान्तरालवत्तिजघन्यावधिप्रमेयमित्याशंक्य, तत्किल परमाण्वादिक्रमोपचयादौदारिकादिगणानुक्रमतः प्रतिपादयितुं शक्यं अतस्तत्स्वरूपं प्रतिपिपादयिषुर्गाथाद्वयमाह
ओरालविउव्वाहारतेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥३९॥ कम्मोवरि धुवेयरसुण्णेयरवग्गणा अणंताओ ।
चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥४०॥ औदारिकग्रहणादौदारिकशरीरग्रहणयोग्यवर्गणा गृहीताः, इह वर्गणाः सामान्यतश्चतुर्धा द्रव्यादिभेदात् , तत्र द्रव्यत एकपरमाण्वादीनां यावदनन्तपरमाणूनां क्षेत्रत एकप्रदेशावगाढानां योवदसंख्येयप्रदेशावगाढानां कालत एकसमयस्थितीनां
गाथा-३९
गाथा-४०
॥६२॥
Jain Education Inter
For Privale & Personal use only
nelibrary.org