SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचूणिः तयोवृद्धौ सत्यां सूत्रे विभक्तिलोपः प्राकृतत्वात् भजनीयावेव क्षेत्रकालौ, तुरेवार्थे मिन्नक्रमश्च, तथैव योजितः, भजना चैवं कदाचित्तयोवृद्धिर्भवति कदाचिन्न, यतो द्रव्यं क्षेत्रादपि सूक्ष्म, एकस्मिन्नपि नमःप्रदेशेऽनन्तस्कन्धावगाहनात् . द्रव्यादपि पर्यायः सूक्ष्मः, एकस्मिन्नपि द्रव्येऽनंतपर्यायसंभवात् , ततो द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भजनीयो, एवं द्रव्ये च बर्द्धमाने पर्याया नियमतः वद्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां वा पर्यायाणां परिच्छेदसंभवात् , पर्याये तु वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधिवृद्धिसंभवात् । ननु जघन्यमध्यमोत्कृष्टभेदमिन्नयोवधिसम्बन्धिनोः क्षेत्रकालयोरङ्गलावलिकासंख्येयभागादिरूपयोः परस्परं प्रदेशसमयवृद्धया तुल्यत्वमुत हीनाधिकत्वं ? उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असंख्येयभागे जघन्यावधिविषये यावन्तः समयास्तदपेक्षयाऽङ्गलस्याङ्ग तस्यासंख्यभागे जघन्यावधिविषय एव ये नभसः प्रदेशास्तेऽसंख्येयगुणाः, एव सर्वत्राप्यवधिविषयाकालादसंख्येय गुणत्वमवधिविषयस्य क्षेत्रस्यावगन्तव्यम् ।।३६।। अथ क्षेत्रस्यन्थं कालादसंख्येयगुणत्वं कथमवसीयते ? उच्यते, सूत्रप्रामाण्यात् , सूत्रं चेदं दर्शयति सुहमो य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं । अंगुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा ॥३७॥ ॥६०॥ गाथा-३७ For Privale & Personal use only Jain Education Interi inelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy