________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥५९।।
गाथा-३
संख्येया द्वीपसमुद्राः, एवमेकद्वीपविषयोऽपि भावनीयः, यदा पुनः स्वयंभूग्मणे समुद्रे द्वीपे वा कस्यचित्तिरश्चोऽवधि संख्येयकालविषयो जायते, तदा तस्यैव द्वीपस्य समुद्रम्य वा एकदेशविषयः, स्वयंभृग्मणविषयमनुष्यबाह्यावधिर्वा तदेकदेशो विषयः. क्षेत्रप्रमाणं पुनः सर्वत्रापि योजनापेक्षयाऽसंख्येयाख्यमेव, तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च क्षेत्रवृद्धिस्तथो परिस्थूरन्यायमङ्गीकृत्य प्रतिपादितम् ॥३५।। सम्प्रति द्रव्यक्षेत्रकालभावानां यवृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह
काले चउण्ह वुइढी, कालो भइयव्वु खित्तबुढीए ।
वुड्ढीइ दव्वपज्जव, भइयव्वा वित्तकाला उ ॥३६॥ कालेऽवधिगोचरे बर्द्धमाने चतुणा-द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति. ननु काले बर्द्धमानेऽवशिष्टत्रयाणामेव द्रव्यक्षेत्रभावानां वृद्धिर्भवतीत्येतावदेव वक्तुमुचितं. कथमुच्यते-कोलबर्द्धमाने चतुर्णी वृद्धिर्भवतीति ? उच्यते, सामान्याभिधानाददोषः, प्रथमं बर्द्धमानतया विशेषतः कालं निर्धार्य ततो वृद्धिसाम्याच्चतुर्णामपि वृद्धिसामान्येनाभिधानादिति भावः, अस्ति चायं न्यायः, एकस्मिन् ग्सनेन्द्रिये जिते पश्चापि जितानीति, तथा क्षेत्रम्य वृद्धिः
क्षेत्रवृद्धिस्तस्यां सत्यां कालो भजनीय:-कदाचिढ़ते कदाचिन्न, क्षेत्र हत्यन्तसूक्ष्म कालस्तु तदपेक्षया स्थूग्स्ततो | यदि प्रभृतक्षेत्रवृद्धिस्तदा कालोऽपि बीते शेषकालं नेति द्रव्यपर्यायौ नियमतो वर्द्धते, द्रव्यं च पर्यायश्च द्रव्यपर्यायौ
॥५९॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org