SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरसू० ० अब चूर्णि ॥५८।। Jain Education Inter संख्येयकाले इति संख्यातकाल:, स च संवत्सरादिलक्षणोऽपि भवति तु शब्दो विशेषणार्थः, किं विशिनष्टि ? संख्येकालो वर्षसहस्रात्परतो ज्ञेयः तस्मिन् संख्येयकालेऽवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाच समुद्रा द्वीपसमुद्रास्तेऽपि संख्येया भवन्ति, अपिशब्दान्महानेकोऽपि अतिमहत एकदेशोऽपि किमुक्तः भवति ? संख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमपि, संख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, तत्र यदि नाम अत्रत्यस्य यस्य नगदेवधिरुत्पद्यते तस्य जम्बूद्वीपादारभ्य संख्येया द्वीपसमुद्राः परिच्छेद्याः अथवा द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि तिरथः संख्येयकालविषयोऽवधिरुत्पद्यते तदा यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्र वा पश्यति यदि पुनरसंख्येययोजनविस्तृते स्वयंभूरमणादिकद्वीपे समुद्रे वा संख्येयकालविषयोऽवधिः कस्याप्युपजायते तदानीं स प्रागुक्तपरिमाणं तस्य समुद्रस्य द्वीपस्य वैकदेशं पश्यति यद्वा इहत्य तिर्यगूमनुष्य बाह्यावधिरेकद्वीपविषयो द्वीपायेकदेशविषयो वा वेदितव्यः तथाकालेऽसंख्येय पन्द्रयोपमादिलक्षणेऽवधेर्विषये सति तस्यैव संख्येयकाल - परिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या, द्वीपसमुद्रास्तु भाज्याः - विकल्पयितव्याः कस्यचिदसंख्येया एव कस्यचित्संख्येयाः कस्यचिन्महानेकः कस्यचिदेकस्यैकदेशः, तत्रेह यदा मनुष्यस्या संख्येयकालविषयोऽभ्यन्तरावधिरुत्पद्यते तदानीमसंख्येयद्वीपसमुद्रास्तस्य विषयः यदा पुनर्बद्विीपे समुद्रे वा वर्त्तमानस्य कस्यचित्तिरश्वोऽसंख्येयकालविषय जायते तदा तस्य संख्येया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्यासंख्येयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य For Private & Personal Use Only ॥५८॥ sinelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy