________________
गाथा-३३
श्रीधीरसुन्दरसू० आव०अवचूणिः
॥५७॥
हत्थंमि मुहत्तन्तो, दिवसंतंतो गाउयंमि बोद्धव्यो ।
जोयण दिवसपुहुत्तं. पक्खंतो पण्णवीसाओ ॥३३॥ हस्त इति हस्तविषयः क्षेत्रतोऽवधिः, कालतो मुहन्तिः -भिन्न मुहूर्त पश्यतीत्यर्थः, अवध्यवधिमतोरभेदोपचारादर्वाधिः पश्यतीत्युच्यते. कालतो दिवसान्तः भिन्नं दिवसं पश्यन् क्षेत्रतो गव्युने-गव्यतविषयो बोद्धव्यः, योजने इति योजनविषयः | क्षेत्रतोऽवधिः कोलतो दिवसपृथवत्वं पश्यति, कालतः पक्षान्तः भिन्न पक्षं पश्यन क्षेत्रतः पञ्चविंशति योजनानि ॥३३॥
भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो ।
वासं च मणुअलोए, वामपुहत्तं च रुयगंमि ॥३४॥ भरतक्षेत्रविषयेऽवधौ अर्धमाम उत, सकलभरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं पक्षं पश्यतीत्यर्थः, एवं जम्बूद्वीपविषयेऽवधौ साधिको मासो विषयत्वेन बोद्धव्यः, वर्ष च मनुष्यलोके-मनुष्यप्रमाणक्षेत्रविषयोऽवधिः, संवत्सरमतीतमनागतं च पश्यतीत्यर्थः, रुचकारख्यबाह्यद्वीपप्रमाणक्षेत्र विषयोऽवधिर्वर्षपृथकत्वं च पश्यति ॥३४।।
संखिज्जंमि उ काले, दिवसमुद्दावि हुँति संखिज्जा । कालंमि असंखिज्ज, दीवसमुद्दा उ भइयव्वा ॥३५॥
गाथा-३४
।।५७|| गाथा-३५
Jain Education International
For Private & Personal use only
www.jainelibrary.org