________________
श्रोधीरसुन्दरम् ० आव० अवचूर्णिः
॥५४॥
Jain Education Inter
ननु किमिति महामत्स्यः ?, किं वा तस्य तृतीयसमये निजदेद्ददेशसमुत्पादः १ त्रिसमयाहारकत्वं वा कल्पते ?, उच्यते स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनः स्यान्नाऽन्यः, प्रथमद्वितीयसमययोरतिसूक्ष्मः, चतुर्थादिषु चातिस्थूर इति त्रिसमयारकग्रहणं, अन्ये तु व्याचक्षते त्रिसमयाहारक इति आयामविकंसंहारसमयद्वयं सूचिसंहरणोत्पाद समययोश्चेति त्रयः समयाविग्रहाभावाच्चाहारक एवेत्युत्पादसमये एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनथ, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमययोगात्, श्रत्रिसमयाहारकत्वाख्य विशेषणानुपत्तिप्रसंगात्। ||३०|| अथोत्कृष्टमवधिक्षेत्रमाह
सव्ववहुअगणिजीवा, निरन्तरं जत्तियं भरिज्जासु । वित्तं सव्वदिसागं, परमोही खित्त निदिट्टो || ३१ ॥
यत ऊर्ध्वमन्य एकाsपि जीवो न कदाचनापि प्राप्यते ते सर्वबहवः ते च तेऽग्निजीवाश्च सूक्ष्मवादररूपाः सर्वबह्वग्निजीवाः, ते कदा स्युरिति चेदुच्यते यदा सर्वासु कर्मभूमिषु निर्व्याघातमग्निकायसमारम्भका सर्वबहवोः मनुष्याः, ते च प्रायोऽजितस्वामितोर्थकरकाले प्राप्यन्ते यदा चोत्कृष्टपदवर्त्तिनः (बादराः तदनुरुच्यन्ते तथा) सूक्ष्मानलजीवाः, तदा सर्वबहवग्निकाय जीवपरिमाणं निरन्तरमिति क्रियाविशेषणं यावत्परिमाणं क्षेत्र' भृतवन्तो - व्याप्तावन्तः
For Private & Personal Use Only
गाथा - ३१
॥५४॥
www.jainelibrary.org