SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दर आव० अवचूर्णिः ॥५३॥ Jain Education International आहरति- आहार' गृह्णातीत्याहारकः, त्रयः समयाः समाहतास्त्रिसमयं त्रिसमयमाहारकः 'व्याप्ताविति' (सि. ३-१-६१ ) समासः, त्रिमहारकस्य सूक्ष्मनामकर्मोदयवर्त्तिनः पनकजीवस्य वनस्पतिविशेषस्य यावती - यावत्परिमाणा अवगाहन्ते क्षेत्र' यस्यां स्थिता जन्तवः साऽवगाहनातनुरित्यर्थः जघन्या - शेषत्रिसमयाहारकसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जघन्यं क्षेत्र, तुरेवार्थे, अत्रायं सम्प्रदायः यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरस्य बहिः कदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसंबद्धमात्मप्रदेशानामायामं संहृत्यां गुल संख्येयभागबाहल्यं स्वदेहविष्कंभप्रमाणायामविस्तरं प्रतरं करोति, तमपि द्वितीयसमये संहृत्यांगुलसंख्येयभागविष्कंभां मत्स्यदेहविष्कंभप्रमाणायामामात्मप्रदेशसूची विरचयति तृतीयसमये तामपि संहत्याकुलासंख्येयभागमात्रः स्वशरीरस्य बहिष्प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादाराभ्य तृतीयसमये वर्तमानस्य यावत्प्रमाणं शरीर भवति तावत्प्रमाणं जघन्यमालम्बन वस्तुभाजनक्षेत्र ज्ञेयं, एतदर्थप्रतिपादिकाः पूर्वाचार्यकृता गाथा दश्यन्ते, - 'योजनसहस्त्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह से ग्राह्यः ||१|| संदृत्य चाघसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्यांङ्गगुलविभागबाहल्यमानं तु ||२|| स्वतप्रथुत्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचीम् ||३|| संख्यातीताख्याङ्गुलविभागविष्कं ममाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या तृतीयसमये तु संहृत्य ||४|| उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः समयत्रयेण तस्यावगाहना यावती भवति ||५|| तावज्जघन्यमवधेरालंबनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगुणसंप्रदायात् समवसेयम् ||६|| For Private & Personal Use Only ५३॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy