________________
श्रीधीसुन्दरसू० आव०अवचूर्णिः
॥५२॥
भव्यशरीरद्रव्यावधिस्तद्वयतिरिक्तद्रव्यावधिश्च, तत्राद्ये प्रतीते, तृतीयस्तु साक्षात् सत्रणेवोपात्त 'दविए' इति द्रव्यावधिव्या लम्बन इत्यर्थः, अथवा सूत्रे प्रथमान्तस्याप्येकाशंततो, जिनवचनस्य सर्वस्याप्यधमागधभाषात्मकत्वात् , ततो || द्रव्यमेवावधिव्यावधिः, कारणं द्रव्यमिति भावः, यद्वोत्पद्यमानस्यावधेर्यदुपकारकं शरीरादितदवधिकारणत्वात् द्रव्यावधिः, क्षेत्रेऽवधिः, यत्र क्षेत्र स्थितस्यावधिरुत्पद्यते यत्र या क्षेत्रेऽवधिः प्रज्ञापन प्रकाश्यते यत्र वा क्षेत्रे स्वयोग्यानि द्रव्याण्यवधेः परिच्छिनत्ति स क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदिश्यते इति क्षेत्रेऽवधिः क्षेत्रावधिरित्युच्यते, एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते यत्र वा प्रज्ञापकेन प्ररूप्यते यस्मिन् वा काले स्वयोग्यानि द्रव्याणि परिच्छिनत्ति स कालस्य प्राधान्यविवक्षया कालेन व्यपदिश्यते, कालेनावधिः कालावधिः, भवन्ति तत्तत्कर्मवशवर्तिनः प्राणिनोऽनोति भवः नारकादिलक्षणः यस्मिन् भवे उत्पद्यते वर्तते प्रेक्षते वा योऽवधिः स भवावधिः भावः क्षयोपशमिको द्रव्यपर्यायो वा तस्मिन्नवधिर्भावावधिः चौ समुच्चयाथों एषः अनंतरव्यावर्णितस्वरूपः, खलुरेवार्थः एष एव, | नान्यः निक्षेपण-निक्षेपोऽवधेर्भवति सप्तविधः, गतमाद्य द्वारम् ॥२९॥ अथक्षेत्राख्यं द्वितीयद्वार क्षेत्रपरिमाणं च त्रिधा जघन्यमध्यमोत्कृष्टभेदात्, तत्र जघन्यं क्षेत्रपरिमाणमभिधित्सुराह
जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओही खित्तं जहण्णं तु ॥३०॥
गाथा-३०
॥५२॥
Jain Education inted
For Private & Personal use only
Jainelibrary.org