________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥५५॥
किमुक्तं भवति ? नरंतर्येण विशिष्टसूचीरचनया यावद्वयाप्तवन्तः, भूतकालनिर्देशश्वाजितस्वामिकाल एव प्रायः सर्वबहरोऽनलजी वाअस्यामवसर्पिण्यां स्युरिति ख्यापनाय, इद चानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति अत आह-सर्वदिक', अनेन सूचिपरिभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, सर्वबहग्निजीवा निरन्तरं यावत् क्षेत्रं सूचिपरिभ्रमणेन सर्वदिक्क भृतवन्तः, एतावति क्षेत्रे यान्यवस्थितानि रूपीणि द्रव्याणि तत्परिच्छेदसामर्थ्य युक्तः परमांवधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, अयमिह सम्प्रदायः सर्वबहग्निजीवाहि प्रायोजितस्वामितीर्थकरकाले प्राप्यन्ते, तदारम्भकमनुष्यबाहुलयभावात् , मूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रौव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां च स्वबुद्धया पोढाऽवस्थानं कलप्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव घनो जीवः स्वावगाहनाभिरिति द्वितीय, एवं प्रतरोऽपि द्विभेदः, श्रेणिरवि द्विथा तत्राद्याः पञ्चप्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् , षष्ठः प्रकारसूत्रादेशः, ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलिरूपाऽवधिज्ञानिनः सर्वासु दिक्षु शरीरपयन्तेन भ्राम्यते, सा च भ्राम्यमाणाऽसंख्येयान् लोकमात्रान् क्षेत्रविभागानलोके प्राप्नोति, एतावत्क्षेत्रमवधिरूत्कृष्टः, इदं च सामर्थ्यमात्रमुपवर्ण्य ते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति यावताऽलोके तन्न विद्यते, रूपिद्रव्याणामसंभवात् , रूपिद्रव्य विषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिहं स्कन्धानेव जानाति, यदा पुनः अलोकेऽवधिः प्रसरमधिरोहति तदा यथा यथाऽवधिः अभिवृद्धिमासादयति तथा तथा लोके सूक्ष्मसूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि जघन्यमुत्कृष्ट चावधि
Jain Education international
For Private & Personal use only
www.jainelibrary.org