________________
IRATI
श्रीधीग्सुन्दरसू० आव० अवणिः
गमिकद्वार-तत्र गमा-भंगका गणितादिविशेषाश्च यदि वा कारणवशतो ये सदृशपाठाः, तेऽस्य सन्ति इति गमिक 'अतोऽनेकस्वराते इति मत्वर्थीय इकप्रत्ययः, तथा प्रायो दृष्टिवादः, गाथाद्यसमानग्रन्थमगमिकं, तच्च | प्रायः कालिकं, नन्वङ्गप्रविष्टानंगप्रविष्टयोः कः प्रतिविशेषः ?, उच्यते, यद्गणधरैः साक्षाद् दृब्ध तदङ्गप्रविष्ट, तच्च द्वादशाङ्ग, यत्पुनः स्थविरैर्भद्रबाहुस्वामिप्रभृतिभिराचार्यैरुपनिबद्धं तदनङ्गप्रविष्ट, तच्चावश्यकनियुक्त्यादि । ननु पूर्व तावत्पूर्वाणि गणधरैरुपनिाध्यन्ते, पूर्व करणात्पूर्वाणि, पूर्वेषु च सकलबाङ्मयस्यावतारो, न खलु तदस्ति यत् पूर्वेषु नाभिहित, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यरचनेन वा ?, उच्यते-इह विचित्रा जगति प्राणिनः, तत्र ये दुर्मेधसस्ते पूर्वागि नाध्येतुमीशाः, पूर्वाणामतिगम्भीरार्थत्वात् तेषां च दुर्मेधस्त्वात् , स्त्रीणां पूर्वाध्ययनानधिकार एव, तासां तुच्छत्वादिदोपबहुलत्वात् , अत्र वातिशेषाध्ययनानि उत्थानश्रुतादीनि. भूतवादो-दृष्टिवादः ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य च विरचनं, गाथाशेषः । अवधारणप्रयोगं दर्शयतो व्याख्यातं। तदेवं प्रति. पादित स्वरूपेण श्रुतज्ञानं
साम्प्रतं विषयद्वारेण निरूप्यते श्रुतज्ञानं चतुर्धा द्रव्यादिभेदात् , तत्र द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति न तु पश्यति, एवं सर्वक्षेत्र सर्वकालं, सर्वान् भावान् इदं च श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्प प्रायो गुर्वधीनं च, ततो विनेयजनानुग्रहार्थं यो यथा चास्य लाभस्तं तथा दर्शयति
गाथा-२०
॥४५॥
-
Jain Education international
For Privale & Personal use only
www.jainelibrary.org