________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥४४॥
Sea
क्षयापशमभावात् , असंज्ञी मिथ्यादृष्टिः, संज्ञिनः श्रुत संज्ञिश्रुत, असंज्ञिनः श्रुतमसंज्ञिश्रुतं तथा सम्यक् श्रुतअङ्गानङ्गप्रविष्टमाचारावश्यकादि, मिथ्याश्रुत-पुराणरामायणादि, सर्वमेव वा दर्शनपरिग्रहविशेषात्सम्यक्श्रुत' इतरद्वा, तथाहि-सम्यग्दृष्टौ सर्वमपि सम्यक्श्रुत हेयोपादेयशास्त्राणां हेयोपादेयतया परिज्ञानात् , मिथ्याटौ सर्व मिथ्याश्रुत विपर्ययात् तथा सादिसपर्यवसितमनाद्ययर्यवसित च नयानुसारतोऽवसेयं, तत्र द्रव्याम्तिकनयमतादेशेन अनाद्यपर्यवसितं नित्यत्वात् , धर्मास्तिकायादिवत् , पर्यायास्तिकनयमतादेशेन सादिसपर्यवसितमनित्यत्वात् नारकादिपर्यायवत् , अथवा द्रव्यादिचतुष्टयमधिकृत्य यथा द्रव्यत एकं पुरुषं प्रतीत्य सादिसपर्यवसित नानाजीवानाश्रित्यानाद्यपर्यवसितं, कदाचिदपि व्यवच्छेदाभावात् , क्षेत्रतः पञ्चभरतानि पञ्चरवतानि प्रतीत्य सादिसपर्यवसितं, सुषमसुषमादावभावात् , पञ्चमहाविदे. हानधिकृत्यानाद्यपर्यवसित, सकलकालं तत्र भावात् , कालत उत्सपिणीमवसप्पिणीं चाधिकृत्य सादिसपर्यवसितं, तृतीयाधरकेष्वेव भावात् , नोत्सर्ग्यिण्यवसय॑िणीमधिकृत्यानाद्यपर्यवसित', महाविदेहेषु सतत भावात् , भावतः प्रज्ञापकगतान् उपयोगस्वरप्रयत्नग्थानविशेषादीन् भावान् ज्ञेयगतांश्च गतिस्थानभेदसंघातवर्णरसगन्धस्पर्शादीन् भावान् प्रतीत्य सादिसपर्यवसित इदमुकं भवति प्रज्ञापकोषयोगादिमावा हि प्रयत्नादिनिर्वय॑त्वादनित्याः, प्रज्ञापनीयभावा अपि पुद्गलादिसंबन्धिनो गतिस्थित्यादयोऽनित्या एव, यच्चानित्यं तद्घटवत्सादिसपर्यवसितमिति प्रतीतमेव अतस्तदाश्रयं श्रुतमाप तद्रूपमेवेति, क्षायोंपशमिकं पुनर्भावमङ्गोकृत्यानाद्यपर्यवसितं, तस्य सर्वकालं भावात् , खलुशब्दः एवार्थः, | स चावधारणे तस्य च व्यवहितसंबंधः, सप्तैवैते श्रुतपक्षाः सप्रतिपक्षाः, न पुनः पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् ।
गाथा-२०
॥४४॥
Jain Education intem
For Privale & Personal use only