________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥४३॥
भयसन्ना मेहुणसन्ना परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसणा' इति, सत्यमेतत् , केवलमेतासु मध्ये या ओधसंज्ञा लोकसंज्ञा वा सातिस्ताका, ततो न तत्सम्बन्धमात्रेण संज्ञीति व्यपदेष्टु' शक्यः, न खलु कार्षापणधनमात्रेण लोके धनवानिन्युच्यते, या वाहारादिसंज्ञा सा भूयस्यपि मोहनीयोदयप्रभवत्वेन न विशिष्टा, न चाविशिष्टया संज्ञया संज्ञीत्यभिधातु शक्यं, न ह्यविशिष्टेन मूर्तिमात्रेग लोके स्वरूपवानिति व्यवहारः ततो या महती शोभना च ज्ञानावरणोयकर्मक्षयोपशमजन्या मनोज्ञानरूपा संत्रा तयैव संज्ञीति व्यपदिश्यते, स च संज्ञी त्रिविधः, तद्यथा द घालिक्युपदेशेन हेतुवादोपदेशेन दृष्टिबापदोशेन, तत्र यया संज्ञया सुदीर्घमपि कालमतीतमर्थ स्मरति एव्यन्त च चिन्नयति स दीर्घकालः सोऽस्या अस्तीति दीर्घकालिकी सा चासवुपदेशश्च, उपदेशो-भणन, दीर्घकालिक्युपदेशस्तेन, मनोज्ञानावरणकर्मक्षयोपशमवशान्मनोलब्धिसंपन्नोऽनन्तान् मनोलब्धियोग्यान पुद्गलान् गृहीत्वा मनस्त्वेन परिणमग्य मन्यते चिन्तनीयं वस्तुवातं, तेनासौ गर्भजस्तिर्यग् मनुष्या वा देवो नारको वा द्रष्टव्यो, न शेष एकेन्द्रियादिः, विशिष्टमनोलब्धिविकलत्वात् . तथा च सति दीर्घकालिक्युपदेशेनासंज्ञी एकेन्द्रियो दोन्द्रियादिश्च प्रतिपत्तव्यः, तथा हेतुनिमित्तं कारणं तस्य वदनं बादस्तद्विषयं उपदेशः-प्ररूपणं सः, तेन संज्ञी यो बुद्धिपूर्वकं स्वदेहपरिपालनाय ईप्टेष्वाहारादिषु प्रवर्तते, अनिष्टेभ्यस्तु निवर्तने, स च द्वीन्द्रियादिरपि ज्ञेयः, तस्यापि मनःसश्चिन्तनपूर्वकमिष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् , केवलमस्य मनश्चिन्तनं प्रायो वतमानकालविषयं, न भृत्तभविमनासचन्ता यद्विषय, अल्पमनोलब्धिसंपन्नन्वात् , ततो नादिमः संज्ञी लभ्यते, एतन्मतेनासंज्ञिन एकेन्द्रिया एव द्रष्टव्याः, तथादृष्टिदर्शन-सम्यक्त्वादि तस्य वदनं वादस्तद्विषयं उपदेशः प्ररूपणं तेन संज्ञी सम्यग्दृष्टिस्तस्य संज्ञा ज्ञानावरणकर्म
For Private & Personal use only
गाथा-२०
॥४३॥
www.jainelibrary.org
Jain Education International