________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥४१॥
- मईविसेसा सुयनाणऽभतरे जाण'[विशे०]तांश्चोत्कृष्टश्रुतधरोऽप्यभिलाप्यानपि न सर्वान् भाषितुं समर्थः, तेषामनन्तत्वाद् आयुषः परिमितत्वाद्वाचः क्रमवर्तित्वाच्च अतोऽशक्तिः, निक्षेपणं निक्षेपो नामादिन्यासः, चतुर्दशविधश्चासौ निक्षेपश्च श्रुतं, तज्ञाने-श्रुतज्ञानविषयं, चात् श्रुताज्ञानविपयं, अपिशब्दादुभयविषयं च. तत्र श्रुतज्ञानं सम्यकश्रुतं, श्रुतावानं असंनिमिथ्याश्रुते उभयश्रुते दर्शनविशेषपरिग्रहादक्षरानक्षरादिरूपे, वक्ष्ये ।।चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनार्थमाह
अक्खर सणि सम्मं, साईयं खलु सपज्जवसिअं च ।
गमियं अंगगविटुं, सत्तावि एए सपडिवक्खा ॥१९॥ अक्षरादीनि सप्तद्वाराणि अनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति, सर्वा श्रुतशब्दो योज्यः, अक्षरश्रुतमनक्षरश्रुतमित्यादि, 'क्षर संचलने न क्षरतीत्यक्षा, तच्च ज्ञानं, चेतनेत्यर्थः, न खल्विदमनुपयोगेऽपि प्रच्यवनेऽतोऽक्षरमिति भावः, इत्थंभूतभावाक्षरकारणावादकारादिकमप्यक्षरमभिधीयते, कारणे कार्योपचारात् , अथवार्थान्नक्षरति न च क्षयमुपयातीत्यक्षर', तच्च विधा व्यञ्जनाक्षर' संज्ञाक्षर लब्ध्यक्ष च, तत्र व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्च तदक्षर' च व्यजनाक्षरं, तच्चेह भाष्यमाणं सर्वमेवाकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, संज्ञाक्षरमक्षराकारविशेषो, यथा घटिकासंस्थानो धकार इत्यादि, तच्च ब्राह्यादिलिपिविंधानेनानेकविध', योऽक्षरोपलंभस्तल्लब्ध्यक्षर', तच्चेन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारिज्ञान तदावरणकर्मक्षयोपशमो या, तत्र व्यञ्जनाक्षर संज्ञाक्षर च द्रव्याक्षरमुक्त, श्रुतज्ञानाख्यभावाक्षरकारणत्वात् , लब्ध्यक्षर' तु भावाक्षर', विज्ञानात्मकत्वात् उक्तमक्षरश्रुतं
II
गाथा-१९
॥४१॥
For Private & Personal Use Only
www.ininetbrary.org
Jain Education International