________________
श्रीधीरसुन्दरसू० आव० अवणिः ॥४०॥
पुनरेकैकबिधा-उदात्तोऽनुदात्तः स्वरितश्चेति पोहा अकारः, एवं दीर्घः प्लुतश्चत्येष्टादशावर्णभेदाः एवमिवर्गादिष्वपि यथासंभवं भेदजाल वक्तव्यं, तथाऽक्षराणां संयोगा द्वथादयो यावन्तो लोके, यथा घटः पट इत्यादि व्याघहस्तीत्यादि च, एते चानन्ताः, तत्राप्येकेकोऽनंतपर्यायः स्वपरपर्यायापेक्षया, ननु संख्येयानि अकारादीन्यक्षगणि ततस्तेषां संयोगा अपि संख्येया एव, ते कथमनन्ताः ?, उच्यते, इह पुद्गलास्तिकायादिकमभिधेयं परस्परविलक्षगमनंतं च, तद्यथा-परमाणुप्रिदेशिकस्वित्रदेशिको यावदनन्ताणुक इत्यादि. अभिधेयभेदे चाभिधानस्यापि भेदः, अभिधानभेदस्याभिधेयभेदहेतुकत्वात् , एकत्रापि चाभिधेयेऽभिधेयधर्मभेदतोऽनेकाभिधानप्रवृत्तिः, यथा परमाणुनिरंशो निखयो निष्प्रदेशो निर्भेदः, तथा द्वथणुको यद्यशो द्विप्रदेशो द्विभेदो द्वयवयव इत्यादि, न चैते ध्वनयः सर्वथैकाभिधेयवाचकाः, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात् , एवं सर्वद्रव्येषु सर्वद्रव्यपर्यायेषु च यथायोगं भाव्य, ततो भवत्यनंता अक्षरसंयोगाः, एतावत्यः-इयत्प्रमाणाः प्रकृतयः श्रुतज्ञाने भवन्ति-ज्ञातव्याः। संप्रति सामान्यरूपतयोपदर्शितानामनन्तानां श्रुतप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनः खल्वपश्नाह ।
कत्तो मे वण्णेऊ, सत्ती सुयणाणसव्वपयडीओ ? ।
चउदसविहनिकखेवं, सुयनाणे आवि वोच्छामि ॥१८॥ कुतो मे-मम वर्णयितु-प्रतिपादयितु शक्तिः-सामर्थ्य ?, नैवेत्यर्थः, का?, श्रुतज्ञानसर्वप्रकृती, प्रकृत्यो-भेदाः, कथं न शक्तिः १, उच्यते, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तदपि श्रुतमिति प्रतिपादिताः, उक्तश्च 'ते विय
गाथा-१८
॥४०॥
For Private & Personal Use Only
Jain Education Inter
hinelibrary.org