________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः ॥३७॥
Jain Education International
साम्प्रतमामिनिवोधिकजीवद्रव्यप्रमाणमुच्यते, पूर्वप्रतिपन्ना जघन्यतः क्षेत्रपल्योपमासंख्येय भाग प्रदेशराशिप्रमाणाः २, क्षेत्रद्वारे नानाजी वानङ्गीकृत्य सर्व एव मतिज्ञानिनो लोकसंख्येयभागे वर्त्तते, एकजीवस्त्विलिकागत्या गच्छन्नूर्ध्वमनुतरसुरेषु सप्त चतुर्दशभागेषु रज्जुप्रमाणेषु वर्त्तते, तेभ्यो वाऽऽगच्छत अधस्तु षष्ठीं पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु चतुर्दशभागेषु नातः परमधः क्षेत्रमस्ति यस्मात्सम्यग्दृष्टेरधः सप्तमनरकगमनं प्रतिषिद्धं षष्ठीमपि पृथ्वीं यावत् सैद्धान्तिक मतेनाविराधितसम्यक्त्वो गृहीतेनापि क्षायोपशमिकदर्शनेन न कश्चिदुत्पद्यते नन्वधः सप्तम पृथिव्यामपि सम्यक्त्वलाभस्य प्रतिपादितत्त्वादागच्छतः पञ्चसप्तभागाधिक क्षेत्र संभवः, उच्यते एतदयुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्यापि निषेधात् यस्मात्तन उद्वृत्तास्तिर्यक्ष्वेवागच्छन्ति इति प्रतिपादितं, अमरनारकाच सम्यग्दृशो मनुष्येष्विति ३, स्पर्शनाद्वारे स्पर्शना क्षेत्रादधिका, यथा परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशा च स्पर्शना४, कालद्वारे उपयोगमधिकत्यैकस्यानेकेषां च जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमान एव काल:, लब्धिमङ्गीकृत्य जघन्येनैकस्यान्तर्मुहूर्त्तमुत्कर्षतः षट् पष्टपमाण्यधिकानि कथम् ?, उच्यते, विजयादिषु त्रयस्त्रिंशत्सागरस्थितिकेषु देवेषु वारद्वयं गतस्य यद्वाऽच्युते द्वाविंशतिसागरस्थितिकेषु देवेषु त्रीन् वारान् गतस्य पट्षष्टिसागरोपमाणि भवन्ति, अधिकं चेह नरभवसंबंधि पूर्वकोटीनां त्रयं चतुष्टयं वा द्रष्टव्यं नानाजीवापेक्षया तु सर्वकालं, यम्मान्नकदाचिदपि लोक आमिनिबोधिकलब्धिमच्छून्यो भवति, ५, अन्तरद्वारे - तत्रैकजीवमधिकृत्य मतेरन्तरं जघन्येनान्तर्मुहूर्त्त कथ ? यथाकचिज्जीवः सम्यक्त्वसहितां मतिमवाप्य प्रतिपत्य चान्तर्मुहूर्त्त मिथ्यात्वे स्थित्वा पुनरपि तदावरणकर्मक्षयोपशमात् ससम्यक्त्व ं मतिज्ञानमवाप्नोति इति, उत्कर्षतस्त्वपार्द्ध पुद्ग
For Private & Personal Use Only
गाथा - १४-१
||३७||
www.jainelibrary.org