________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
ननु मतिलाभस्य सम्यग्दर्शनसहायत्वादिति व्यवहारेणाप्युवतं, तत्कोऽस्य व्यवहाराद्विशेषो येनास्य सम्यग्दृष्टिः । मतेः प्रतिपद्यमानको भवति ? इत्याह क्रियाकालनिष्ठाकालयोरभेदादिति, निश्चयो हि मन्यते यदैव सम्यक्त्वप्राप्तिक्रियाविशिष्टो भवति जीवस्तदैव सम्यग्दृष्टिव्यपदेशमासादयति. क्रियाकालस्य निष्ठाकालस्य चैकत्वात् , अतः सम्यग्दृष्टिः सन्नेतदभिप्रायेण मतिज्ञानं प्रतिपद्यत इति ८, ज्ञानद्वारे मत्यादिभेदाज्ज्ञानं पञ्चधा, अत्रापि व्यवहारनिश्चयाभ्यां विचारः, तत्र व्यवहारमतेन मतिश्रुतावधिमनःपर्यायज्ञानिष्वाद्याः,नापरे, न ह्येतन्मतेन ज्ञानी सन्मतिज्ञानं प्रतिपद्यते किंत्वज्ञानीति, केवलिन्युभयाभावः, तस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु कदाचिद्विवक्षितकाले प्रतिपद्यमानकः भवन्ति, नापरे, निश्चयनयमतेन तु मतिश्रतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, अन्येऽपि सम्भवति, सम्यग्दर्शनलाभस्य एव मत्यादिलाभस्य संभवात् , क्रियाकालनिष्ठाकालयोश्चाभेदात् , मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव नापरे, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चाद्यत्यवस्थायां मनःपर्यायज्ञानसद्भावात् , केवलिनां तूभयाभवो, मत्यादिज्ञानव्यवच्छेदेन केवलोत्पत्तेः, मत्याद्यज्ञानिषु तूभयाभावः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात् , क्रियाकालनिष्ठाकालयोरभेदात् , अज्ञानभावे च प्रतिपत्तिक्रियाया अभावात् ९, दर्शनद्वारे-दर्शनं चतुर्की-चक्षुरचक्षुरवधिकेवलभेदात् , आधे दर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, अन्ये भोज्याः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, नान्ये, मतिज्ञानस्य लब्धित्वात , लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् , 'सव्वाओ लद्धीओ सागारोवआगोवउत्तस्स उववज्जन्ति 'इति वचनात् , केवलदर्शनिनां तूभयाभावः, अन्यदर्शनव्यव- | च्छेदेन केवलज्ञानदर्शनोत्पत्तेः १०, संयतद्वारे संयतः पूर्वप्रतिपन्नो नियमाल्लभ्यते, प्रतिपद्यमानकस्तुभाज्याः ।
गाथा-१४
॥३५॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org