SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० एकेन्द्रियेषु तूभयाभावः २, कायानधिकृत्य विचार्यते, तत्र त्रसकाये पूर्वपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्याः, | आव०अवचूर्णिमा शेषकायेषु पञ्चमूमयाभावः, एतच्च सिद्धान्ताभिप्रायेण, कार्मग्रन्थिकाभिप्रायेण तु लब्धिपर्याप्तबादरपृथ्वयपवनस्पतिषु ॥३४॥ करणापर्याप्तेषु पूर्वप्रतिपन्नाः सम्भवन्ति, सासादनसम्यक्त्वस्य तदभिप्रायेण तेषु भावात् , इतरे तु सर्वथा नैव, तेजोवायवस्तूभयविकला एव ३, योगानधिकृत्य मनोवागकाययोगेषु समुदितेषु पञ्चेन्द्रियवद्रक्तव्यं, मनोरहितवाग्योगिषु विकलेन्द्रियवत् , केवलकाययोगिष्वेकेन्द्रियवत् ४, तथा वेदानधिकृत्य स्त्री पुनपुंसकरूपेषु त्रिष्वपि वेदेषु पूर्वप्रतिपन्नाः सन्ति, अन्ये भाज्याः ५, कषायद्वारे आयेष्वनंतानुबन्धिक्रोधादिषु सासादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, नवितरे, शेषेषु द्वादशकषायेषु आद्या नियमतः सन्ति, अन्ये भाज्या:६, लेश्याद्वारे श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः, कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामा इत्यर्थः, तत्राद्यासु तिसृषु आद्याः (पूर्वप्रतिपन्नाः) सम्भवन्ति, नेतरे, शेषासु गतिवत्, सम्यक्त्वद्वारे व्यवहारनिश्चयाभ्यां विचारः, तत्र व्यवहारनयमतेन सम्यग्दर्शनमतिश्रुतानां प्रतिपद्यमानको मिथ्यादृष्टिरेव स्यात् नतु सम्यग्दृष्टिः, सन्मतिश्रुते प्रतिपद्यते, कुतः, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात् , यदि हि प्राप्ते सति सम्यत्वे मतिश्रुते प्रतिपद्यते तदा स्यात्सम्यग्दृष्टिमतेः प्रतिपद्यमानकः न चैतदस्ति, | सम्यक्त्वेन सहैव तल्लाभात् , अथ सम्यक्त्वेन सह लब्धेऽपि मतिश्रुते सम्यग्दृष्टिः पुनरपि प्रतिपद्यते तहि अनवस्था, ततः सम्यग्दृष्टिः पूर्वप्रतिपन्न एव, नेतरः, निश्चयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः, प्रतिपद्यमानकश्च मतेः सम्यग्दर्शनसहायत्वात् । गाथा-१४ ॥३४॥ Jain Education Interne For Privale & Personal use only 1 library og
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy