________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥३३॥
तत्प्रतिपद्यते ६, भागो मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्ते७, भावः कस्मिन् भावे मतिज्ञानिनो वर्तन्ते८, अल्पबहुत्वं९ च वक्तव्यं, ननु भागद्वारेणैवायमर्थोऽवगतस्ततः किमनेन द्वारेण ?, न, अभिप्रायापरिज्ञानात् , इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकानां परस्परमल्पबहुत्वं च वक्तव्यं, इह च ये मतिज्ञानलाभस्याये समये वर्तन्ते प्रतिपद्यमानकाः, ये तु तल्लाभस्य द्वितीयादिसमयेषु वर्तन्ते ते पूर्वप्रतिपन्नाः, भागस्तु शेषज्ञानापेक्षया ॥१३।।
गइ इंदिए य काए, जोए वेए कसायलेसासु । समत्तनाणदंसणसंजयउवओगआहारे ॥१४॥ भासग-परित्त-पज्जत्तसुहुमे सण्णी य होइ भव-चरिमे ।
आभिणिबोहिअनाणं, मग्गिज्जइ एसु ठाणेसु ॥१५॥ गाथाद्वयेन मतिज्ञानस्य सत्पदप्ररूपणताद्वारावयवार्थः प्रतिपाद्यते, मतिज्ञानं किमस्ति नास्ति इति ?, अस्ति, यद्यस्ति व तत् ?, तत्र गतिमङ्गीकृत्य मृग्यते, सा गतिश्चतुर्धा-नारकतिर्यग्मनुष्यामरभेदात् , तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानकास्तु विवक्षितकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति इंद्रियाण्यंगीकृत्य मृग्यते, तत्र पम्चेन्द्रियाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्याः, द्वित्रिचतुरिन्द्रियास्तु करणपर्याप्तावस्थायां पूर्वभवायातं सास्वादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नाः सम्भवन्ति, नवितरे,
गाथा-१४
॥३३॥
For Privale & Personal use only
wrwww.ininelibrary.org
Jain Education International