________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥32॥
पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकासंख्येयतमभागे भाषाया असंख्ययभागः, तस्यां तस्य दण्डसमयत्वात् , तत्र चोक्तप्रकारेणासंख्येयभागवर्तित्वभावादिति, चतुर्थे तु समये चतुःसामयिक्यां व्याप्तो मध्यान्तरालपूरणात्समस्तलोकव्याप्तिः, पञ्चसामयिक्यां व्याप्तौ तु तुर्यसमये लोकस्य संख्येयभागे भाषायाः संख्ययो भागः, तस्यां तस्य मथिसमयत्वात् तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वात् , पञ्चसामयिक्यां पञ्चमसमये मध्यन्तरालपुरणात् समस्तलोकव्याप्तिः, एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षया द्रष्टव्यं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेण । लोकापूरणासंभवात् , त्रिचतु:पश्चसमयव्याप्ती व्यादिसमयेष्वापूरिते लोके लोकस्य चरमान्ते भाषाया अपि चस्मान्तो भवति, किमुक्त भवति ?, लोके निष्ठां गते भाषाऽपि निष्ठां यातीति । 'तत्वभेदपर्यायाख्या' इति न्ययात्तवतो भेदतश्च मतिज्ञानस्वरूपमुक्त। इदानी' नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दानाह
ईहा अपोह वीमंसा, मग्गणा य गवेसणा।
सण्णा सइ मइ पण्णा, सव्वं आमिणिबोहियं ॥१२॥ ईहनमीहा-स्थाणुर्वा पुरुषो वेति विचारणा, सतामर्थानामन्वयिनां व्यतिरेकिणां च पर्यालोचनेत्यर्थः, अपोहनं अपोहो-निश्चयः, विमर्शन-विमर्शोवायात्पूर्व ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्माः, नात्र राजपथि स्थाणुर्भवति, ततः पुरुषः संभाव्यते इति संप्रत्ययः, अस्तित्वरूपं अन्वयिधर्मान्वेषणं मार्गमा, चः समुच्चयार्थः,
गाथा-१२
॥३१॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org