SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आव०अवचूर्णिः ॥३०॥ तथापि वक्तृमुखनिर्गतत्वात् प्रमाणानुसारेण बाल्येन चतुरङ्गुलादिभाना भवन्ति, चतुरादीनि चाङ्गुलानि लोकसंख्येयभागे वर्त्तते इति त्रिसमयव्याप्तौ आद्ययोः समयोर्लोकाऽसंख्येयभागे भाषया असंख्येयभागो भवति, तथा चतुःसमयव्याप्तौ आधे लोकमध्यमात्रप्रवेशो द्वितीये दण्डोत्पत्तिः, पश्चसमयव्याप्तौ तु आये भाषाद्रव्याणां विदिशो दिशि गमनं द्वितीये लोकमध्यमात्रप्रवेशः स्यादित्युभयत्रापि आद्ययोः समययोर्लोकासंख्येयभागे भाषया असंख्येयभगा त्रिसमयव्याप्ता तृतीयसमये तु सकललोकव्याप्तिः, चतुःसमयव्याप्तौ तु तृतीयसमये लोकसंख्येयभागे भाषाया अपि संख्येयभागः, कथमिति चेदुच्यते, स्वयंभूरमणपश्चिमपरतटवर्तिनि लोकान्ते वसनाडया बहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य चतुरङ्गुलादिवाल्यो रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयंभूरणणपूर्वतटवर्तिनि लोकान्ते लगति, ततो द्वितीयसमये तस्माद्दण्डाधिश्चतुर्दशरज्जूच्छ्रितः पूर्वापरतिरश्वीनतया रज्जुविस्तृतः परोधातवासितद्रव्याणां दण्डो - निर्गच्छति, लोकमध्ये तु पराघातवासितद्रव्याणामेव चतुरङ्गुलादिवाहल्यरज्जुविस्तीर्ण दण्डद्वयं निर्गत्य स्वयंभूरमणदक्षिणोत्तरवर्तिलोकान्तर्योर्लगति, एवं च सति चतुरङ्गुलादिबाहल्यं सर्वतो रज्जुविस्तीर्ण लोकमध्ये वृत्तछत्वरं सिद्धं भवति, तृतीयसमये तूर्धाधोव्यवस्थितदण्डाच्चतुर्दिकप्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति लोकमध्यस्थितसर्वतोरज्जुविस्तीर्णछत्वगदू_धोविस्तृतः पुनः स एव सनाडी समस्तामपि पूरयति, एवं च सति त्रसनाडी सर्वाऽपि ऊर्ध्वाधोव्यवस्थितदण्डमथिभावेन तदधिकं च लोकस्य पूरितं भवति एतावच्च क्षेत्र लोकस्य संख्याततमो भागः, तथा च सति चमुसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति, गाथा-११ ॥३०॥ in d lainerbrary.org For Private & Personal Use Only en nem
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy