________________
धा
श्रोधीरसुन्दरसू० आव०अवचूर्णिः
॥२९॥
अत्र च त्रिसमयपक्षे चतु:समयपक्षे च येऽनुश्रेणिस्थिता निष्कुटास्त एव पूर्यन्ते, वत्क्रनिष्कुटपूरणं तु न बुद्धयते एव, स्वल्पत्वाच्च न विवक्षितमिति लक्ष्यते, अन्ये तु जैनसमुद्घातगत्या सकललोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्धाधोगमनाच्छेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषेण "भासासमसेढीतो सई जं सुणइ मीसयं सुणई" इति, अथ व्याख्यानतोऽर्थप्रतिपत्तिरिति न्यायाद् दण्ड एव मिश्रशब्दश्रवणं भवति, नाशेषदिक्षु, ततश्चादोष इति, अत्रोच्यते, एवमपि त्रिमिः समयैर्लोकमापूरणमापद्यते, न चतु:समयसंभवोऽस्ति, कथम् ?, प्रथमसमयानन्तरमेव शेषदिक्ष पराघातद्रव्यसद्भावात् , द्वितीयसमय एवमभिधानसिद्धः, तृतीये च तदन्तरालापूरणादिति--
ननु जेनससुद्घातवच्चतुर्भिरेवापूरण भविष्यति, को दोषः ?, उच्यते, जैनसमुद्घाते हि स्वरूपेणापूरणात् न तत्र पराघातद्रव्यसम्भवोऽस्ति, सकर्मजीवव्यापारत्वात्तस्य, ततश्च तत्र द्वितीयसमये कपाटनिवृत्तिरेव, शब्दद्रव्याणां त्वनुश्रेणिगमनात् पराघातद्रव्यान्तरवासकस्वभावत्वाद्वितीयसमय एव मन्थानापत्तिः, अचित्तमहास्कन्धोऽपि वेश्रसिकत्वात्पराघाताभावाच्चतुर्भिरेवापूरयति, न चैवं शब्दः यदुक्तं___'लोकस्य च कतिभागे कतिभागो भवति भाषाया' इति, तत्रोत्तरमाह-लोकस्य च क्षेत्रगणितमपेक्ष्य चरमान्तेऽसंख्येयभागेऽसंख्येयभागो भवति भाषायाः समस्तलोकव्यापिन्याः, इयमत्र भावना त्रिसमयव्याप्तौ चतुःसमयव्याप्ती पञ्चसमयव्याप्तौ वा नियमेन प्रथमद्वितीयसमययोर्लोकासंख्येयभागे चरमान्तोऽसंख्येयभागे भाषायां भवति
तथाहि-त्रिसमयव्याप्तौ प्रथमे दण्डपट्कं द्वितीये मन्थानषट्कं, ते च दण्डादयो यद्यपि दैर्येण लोकान्तस्पर्शिनः || ||
गाथा-११
॥२९॥
Jain Education International
For Private & Personal use only
wronaw.jainelibrary.org