________________
श्रीधीरसुन्दरसू०||| च तथा निसृष्टानि मन्दप्रयत्ननिसृष्टत्वात् परिस्थूराणि, अत एव तदन्यद्रव्यवासनोत्पादपाटवरहितानि असंख्येयानि आव० अवणिः ।
योजनानि गत्वा खण्डशो भिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामं विजहाति, यस्तु ॥२८॥
महाप्रयत्नो वक्ता, स खल्वादानप्रयत्नेनापि भित्त्वैव गृह्णाति, गृहीत्वा च शब्दपरिणाममपि तेषामत्युत्कटमुत्पादयति, उत्पात्य च निसर्गप्रयत्नेन भूयो भिवा निसृजति, तानि च तथा निसृष्टानि सूक्ष्मत्वादतिप्रभूतत्वादत्युकटशब्दपरिणामत्वाच्च तदन्यानि बहूनि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकतया षट्स्वपि दिक्षु अनन्तगुणवृद्धया परिवर्द्धमानानि लोकान्तमाप्नुवन्ति, शेष तु तत्पराघातवासितानि द्रव्याणि लोकमापूरयन्ति, इह चतुःसमयग्रहणात्रिममयग्रहणमपि प्रत्येतव्यं, तुलादीनां मध्यग्रहणे आद्यन्तग्रहणवत् , कथं त्रिभिः समयैर्लोको भाषया निरन्तरमापूरितो भवति ?, उच्यते, इह यदा लोकमध्यस्थो वक्ता भवति तदा तेन निसृष्टानि भाषापरिण तानि द्रव्याणि प्रथमसमये एव पद दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलानामनुश्रेणिगमनात् , द्वितीयसमये तु त एव षट् दण्डाः चतुर्दिक्षु एकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक तदन्तरालापूरणात् पूर्णो भवति लोकः, एवं त्रिमिः समयैर्भापया लोकः स्पृष्टो भवति, यदा तु स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकास्याऽत्यन्तनिकटीभूय वसनाडया बहिश्चतरुणां दिशामन्यतमस्यां दिशि व्यवस्थितो भाषको वक्ति तदा चतुर्भिः समयैरापूर्यते, कथ' ?, एकेन समयेन अंतस्त्रसनाडि शब्दद्रव्याण्यनुप्रविशन्ति, तदा वामदक्षिण२पृष्ठो३द्वर्वाधोपदिशामलोकेन संवलितत्त्वात् , शेषसमयभावना प्राग्वत् , यदा तु सनाडया बहिर्विदिक् स्थितो भाषको वक्ति तदा पुद्गौलानामनुश्रेणिगमनात् प्रथमसमयेन विदिशो दिशि गमनं द्वितीयेन तु नाडयन्तः प्रवेशः, शेषं समयत्रयं प्राग्वदित्येव पञ्चमिः समयैः सकललोकपूरणं,
गाथा-११
॥२८॥
Jain Education Inter
diainelibrary.org
For Privale & Personal use only