________________
श्री धीरसुन्दरम् ० आव० अवचूर्णिः ॥२६॥
Jain Education Interna
मिति तदभिधातुकामाह-
ओरालियवेउव्वियआहारो गिन्हई मुयइ भासं ।
सच्चं मोसं सच्चामोसं च असच्चमोसं च ॥९॥
हौदारिकशब्देन शरीरतद्वतोरभेदोपचारात् मत्वर्थीयलोपाद्वा औदारिकशरीखान् जीव एव गृद्यते, एवं वैक्रियवान् बैक्रियः, आहारकवानाहारकः, असौ औदारिकादिर्गृह्णाति -आदत्ते, शब्दयोग्यानि द्रव्याणीति गम्यते, गृहीत्वा भाषात्वेन परिणमय्य निसृजति - मुञ्चति भाषाशब्दपरिणतद्रव्यसंहति, कि विशिष्टामित्याह - सत्यां - सन्तो मुनयस्तेषामेव मुक्तिमार्गप्रवृत्ततया ताच्चिकशिष्टत्वात् तेभ्यो हिता निरवद्यानुष्ठानरूपतया मुक्तिमार्गानुकूलत्वादुपकारिणी सत्या, यत् यस्मै हितं तत्तत्र साध्विति
'तत्र साधौ यः प्रत्ययः, अथवा सन्तो- मूलोत्तरगुणास्तेषामेव मुक्तिमार्गतयाऽतिप्रशस्यत्वात् तेभ्यो हिता तदाराधनात् यद्वा सन्तो-जीवादयः पदार्थास्तेभ्यो हिता यथावस्थितत्वस्वरूपप्रत्याकत्वात् यथाऽस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपा, तद्विपरीताऽसत्या यथा नास्ति जीवः अस्ति चेत्तदा एकान्तसद्रूप इत्यादि, सत्यामृषा यथा धखदिरपलाशादिमित्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमित्यादिरूपा, तत्राशोकतरूणां सद्भावात् सत्यान्येषामपि धवादीनां सद्भावान्मृषा, या न सत्या नापि मृषा साऽसत्यामृषा हे ! देवदत्त ! घटमानय, गां देहि मह्यमित्यादिरूपा, इयं हि स्वरूपमात्रप्रतिपादनफलत्वात् न ययोक्तलक्षणा सत्या नापि मृषा ( नापि सत्यामुषा ) ततः असत्या चासावमृषा
For Private & Personal Use Only
गाथा - ९
||२६||
nelibrary.org