SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवणिः ॥२४॥ II न्तरसमय एकान्तर', प्रतिसमयं गृह्णाति प्रतिसमयं मुञ्चतीति भावार्थः, शरीरव्यापारे सति येन व्यापारविशेषेण शब्दद्रव्योपादानं करोति स कायिको योगः, येन तु कायसंरम्भेण तान्येव मुश्चति स वाचिकः, येन तु मनोद्रव्याणि मनस्त्वेन व्यापारयति-स मानसः, ततः काययोग एव संव्यवहारार्थ त्रिधा विभक्तः, ग्रहणं हि स्वतंत्रं, प्रथमसमये निसर्गमन्तरेणापि तस्य भावात् , ततो नेवादेस्तदापेक्षया सान्तर', निसर्गस्तु ग्रहणपरतंत्रो अगृहीतस्य निसर्गायोगात् इति पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेशः, यानि यानि यस्मिन् यस्मिन् समये गृहीतानि शब्दद्रव्याणि तानि तानि तत्तद्ग्रहणसमयानन्तरसमये सर्वाणि निसृजति, ततो ग्रहणापेक्षया सान्तरो न निरन्तर इति, अथवैकेनाद्यसमयेन गृहणाति 'सर्ववाक्यं सावधारणं मितिन्यायाद् गृह्णात्येव, नतु निसृनति, द्वितीयसमयादारभ्य निसर्गप्रवृत्तेः, प्रथमसमये पूर्वगृहीतद्रव्यासम्भवात् , तथा एकेन-पर्यन्तवतिनो समयेन निसृजति-निसृनत्येव, नतु गृहणाति, भाषणा गाथा-७ दुपरमात्, अपान्तरालवर्तिषु समयेषु ग्रहणनिसगों, स्थापना- नि नि नि | मन | नननु ग्रहणनिसर्गावात्मनः परस्परविरुध्धौ ततः कथमेकस्मिन् समये तो युज्यते ? नैष दोषः एकस्मिन् समये कर्मादाननिसर्गक्रियावत् तथा उत्पादव्ययक्रियावत् अगुल्याकाशसंयोगविभागक्रियावच्च ग्रहणनिसर्गक्रियाद्वयस्यापि सद्भावोपपत्तेः, एकस्मिन् समये यथा जीवस्वाभाव्यात् द्वावुपयोगी न भवतो 'जुगंवं दो नत्थि उवओगा' इति वचनात्, क्रियास्तु बहयोऽपि घटन्ते एव, कायवाङ्मनःक्रियाणामेकस्मिन्नपि समये युगपत्प्रवृत्तिदर्शनात्, यदुक्तं ॥२४॥ Alinelibrary.org For Private & Personal Use Only Jain Education Interne
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy