SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीरसुन्दर आव० अवचूर्णि ॥२२॥ Jain Education Internat इह यत्पुद्गलमात्र निबन्धननियतं न भवति न तस्य विषयमानं यथा केवलज्ञानस्य न भवति च पुद्गलमात्रनिवन्धननियतं मनः तस्मात् तथा स्पृष्टं शृणोति शब्दमित्युक्तं तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि द्रव्याणि श्रृगोति विश्रेणिस्थित एव उतान्यान्येव तद्वासितानि आहोश्विन्मिश्राणीति नोदकाभिप्रायमाशङ्कय न तावत्केवलानि तेषां वासकत्वात्तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा श्रृणोतीत्यमुमर्थमभिधित्सुराह— भासासमसेढीओ, स ं जं सुणइ मीसयं सुई । वीसेढी पुण स, सुणे नियमा पराधाए ॥६॥ भासासमसेढीतो०- भाष्यते इति भाषा - वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंह तिरित्यर्थः तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्युदासार्थ श्रेणयो नाम क्षेत्रप्रदेशपङ्कक्तयो उच्यन्ते, ताश्च सर्वस्यैव भाषमाणस्य पट्सु दिक्षु विद्यन्ते. यासूत्सृष्टा सती भाषा प्रथमसमय एवाऽऽलोकान्तमनुधावति, ता इतो गतः प्राप्तो भाषासमश्रेणित, भाषासमश्रेणिव्यवस्थितः इत्यर्थः, शब्द - भाषात्वेन परिणतं पुद्गलराशि यं पुरुषाश्वादिसंबंधिनं श्रृणोति परिच्छेद्यतया गृहाति यत्तदनित्याभिसंबंधात् तं मिश्रकं शृणोति किमुक्तं भवति ? भाषकव्युत्सृष्टशब्दद्रव्याणि तद्वासितापान्तरालस्थद्रव्याणि चेत्येवं मित्रशब्दद्रव्यराशि शृणोति, न तु वासकमेव वास्यमेव वा केवलं, 'वीसेढो' त्यादि, 'मञ्चाः क्रोशन्तीत्यादिवत् आधेये आधारोपचारात् विणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, विश्रेणिः पुनः श्रोता शब्दमिति पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थ श्रृगोति नियमात् - नियमेन पराधाते - वासनायां For Private & Personal Use Only गाथा-६ ॥२२॥ icalibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy