SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवणिः ॥२०॥ रसस्तं च, स्पृश्यते इति स्पर्शः तं च, चौ पूरणार्थो, बद्धं-आश्लिष्ट' नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्ट पूर्ववत् , प्राकृतशैलधा चेत्थमुपन्यासः, परमार्थतस्तु स्पृष्टं च तत् बद्धं च स्पृष्टबद्धमिति, ननु यद्वद्ध गंधादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बंधायोगात् , ततः स्पृष्टक्षब्दोच्चारणं गतार्थत्वादनर्थकमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोत्साधारणत्वात् , त्रिविधा हि श्रोतारः केचिदुद्घटितज्ञाः केचिन मध्यमवुद्धयः केचित् प्रपंचितज्ञा इति, तत्र प्रपंचितज्ञानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति, प्रकृतभावार्थस्त्वयं-गन्धादिद्रव्याणि स्वल्पानि तदन्यावासकानि च, घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षयाऽपनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिङ्गितानन्तरमात्मप्रदेशैरात्मीकृतं गृहणाति, नान्यथेति, एवं व्यागृणीयात्-प्रतिपादयेत् स्वशिष्येभ्यः प्रज्ञापकः, नन्विदमुक्त-योग्यदेशापस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितं, तत्र कियांश्चक्षुषो विषयः ? कियतो वा | देशादागतं श्रोत्रादि गृहणाति ?, उच्यते, श्रोत्र तावत् शब्दं जघन्यतोऽगुलाख्येयभागमात्राद्देशादुत्कर्षतस्तु द्वादशयोजनेभ्य इति, चक्षुरपि जघन्यतो गुलसंख्येयभागमात्रावस्थितं रूपं पश्यनि उत्कर्षस्तु सातिरेकयोजनशतसहस्त्रव्यवस्थितं, प्राणरसस्पर्शनानि तु जघन्येनाछुलासंख्येयभागमात्रात् देशादागतं गन्धादि गृहणन्ति, उत्कर्षतस्तु नवयोजनेभ्यः, तवेदमिन्द्रियविषयमानमात्मागुलेन प्रतिपत्तव्यं, ननु देहमानमुच्छ्याशुलेन, देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयमानमुच्छ्याङ्गुलेन वक्तुमुचितं, कथमुच्यते, आत्माङ्गुलेन ?, नेष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाण गाथा-५ ॥२०॥ For Private & Personal Use Only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy