SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसन्दरस० ला विशिनष्टि ? व्यवहारापेक्षया चैतन्मुहर्तार्धमुक्त, तत्चतस्त्वन्तर्मुहर्तमवसेयं, अन्ये त्वेव पठन्ति-'मुहर्त्तमंतं तु' अन्तर्मुहूर्त, आव०अवचूर्णिः अंतर्मध्यकरणे, तुरेवार्थः, ईहावायौ भिन्नमुहर्तमंतमुहर्तमेवेत्यर्थः, कलनं कालः तं, न विद्यते संख्या यस्य सोऽसंख्यः ॥१९॥ पलयोपमादिस्तं, संख्यायते इति संख्या इयन्तः पक्षमासत्वयनादयः इत्येवं संख्याप्रमितस्तं, चादन्त मुहूर्त च, अयमंत्र भावार्थ:-अबायोत्तरकालमविच्युतिरूपा अन्तर्मुहृतं भवति, स्मृतिरूपाप्येव', वासनारूपा तु तदावरणक्षयोपशमारव्यसंस्कारापरपर्यायो, अत एव स्मृतिधारणाया बीजभृता, संख्येयवर्षायुषां सचानां संख्येयं कालम् ; असंख्येयवर्षायुषां पलथोपमादिजीविनामसंख्येयमिति ॥संप्रति श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतामाह पुढे सुणेइ सदं रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च बद्धपुटुं वियागरे ॥५॥ श्रोत्रेन्द्रियं कत शब्द' कर्मतापन्न, शब्दप्रायोग्यद्रव्यसंघातमित्यर्थः, श्रृणोति-गृहणाति परिच्छिनत्तीत्यर्थः, स्पृष्टं तनौ रेणुवदालिङ्गितमात्र, किमुक्त' भवति ? शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माणि, अत एव द्रव्येन्द्रियस्यान्तरपि || मनाक् प्रविशन्ति, तदन्यद्रव्यवासकस्वभावानि च, श्रोत्रेन्द्रियं च शेषेन्द्रियगणापेक्षया प्रायः पटुतरं, ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृह्णाति, रूप पुनः पश्यति-गृहणात्युपलभति, अस्पृष्ट-अनालिङ्गितं, गन्धादिक्त् न संबद्धर्मित्यर्थः, तुरवधारणे, अस्पृष्टमेवेत्यर्थः, चक्षुषोप्राप्यकारित्वात , पुनः शब्दो विशेषणार्थ:, सा चेतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितममरलोकादि, गन्ध्यते-आघ्रायत इति गन्धः तं, रस आस्वादने, रस्यते इति | गाथा-५ ॥१९॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy