________________
श्रीधीरसुन्दरस० आव० अवणिः
॥२०९॥
| भा.गाथ
१२-१
पञ्चैव मूलभूतानि शिल्पानि तद्यथा-घटकारशिल्पं लोहकारशिल्पं चित्रकारशिल्पं 'णन्तमिति देशीवचनं वस्त्रवाचकं, अनेन वस्त्रशिल्पं, काश्यप इति नापितं शिल्पं, इयमत्र भावना वस्त्रवृक्षेषु हीयमानेषु प्रभुणा वस्त्रशिल्पमुत्पादित, गृहाकृतिषु हीनेषु लोहकारशिल्पं, प्राणिनां कालदोषान्नखरोमाण्यपि वर्द्धितुं प्रवृतानि तन्निमित्तं नापितशिल्पं, गृहाणि चित्ररहितानि विशोभनानीति चित्रकारशिल्पं, एभ्यः पञ्चभ्य एकैकस्य विंशतिविशतिमेंदा अभूवन् ॥२०७।। अथ शेषद्वारार्थ प्रतिपादनायैकोनविंशतिधा भाष्यकृदाह
कम्मं किसिवाणिज्जाइ ३ मामणा जा परिग्गहे ममया ४ ।
पुवि देवेहि कया विभूसणा मंडणा गुरुणो ५ ॥१२॥ (मू०भा०)
कम-कृषिवाणिज्यादि मामगा-ममीकारार्थ देशीवचनमेतत् या परिग्रहे ममता सा मामणा, सा च तत्काल I एव प्रवृत्तेति, विभूषणा--मण्डना, सा च पूर्व देवेन्द्रगुरोर्भमवतः कृता ततो लोकेऽपि प्रवृत्ता ॥१२॥
लेहं लिपीविहाणं जिणेण बंभीइ दाहिणकरेणं ६ ।
गणिअं संखाणं सुंदरीइ वामेण उवइटुं ७ ॥१३॥ लेखन-लेखः सूत्रे नपुंसकत्वात् लिपिविधानं जिनेन ब्राह्मा दक्षिणकरेण प्रदर्शितं, अत एव तदादित आरम्य वाच्यते, गणितमेकद्विव्यादिसख्यानं, तच्च सुन्दर्या वामकरेणोपदिष्टमतस्तदादित आरभ्य गण्यते ॥१३॥
।
॥२०९
Jain Education International
For Private & Personal use only
www.jainelibrary.org