________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१७॥
दूरदेशस्थितानामिति, एवं मनसोऽप्यप्राप्यकारित्वं भाव्यं, तत्रापि विषयकृतानुग्रहोपघाताभावात् , अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्तायां चोपघातो भवेत् , ननु दृश्यते हर्षादिमिर्मनसोऽतिपुष्टता तद्वशाच्च शरीरोपचयः, उपघातश्च दृश्यते अतिशोककारणात् मनसोविघातसंभवस्तद्वशाच्च शरीरदौर्बल्य, चिन्तावशाच्च हृद्राग इति, तदेतदतीवासंबंद्ध, यत इह मनसोप्राप्यकारित्वं साध्यमानं वर्तते, विषयकृतानुग्रहोपघाताभावादिति हेतोः, न चेह विषयकृतानुग्रहोपघातो त्वया दश्यते तत्कथं व्यभिचारः?, मनस्तु स्वयं पुद्गलमयत्वात् शरीरस्यानुग्रपहौघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहि
इष्टः आहारः परिभुज्यमानः शरीरस्य पोषणमाधत्ते, अनिष्टस्तूपघातं, तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिनिबन्धन शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पुष्टि, तस्मान्मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति चतुर्धा व्यंजनावग्रहः । तथा व्यंजनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यमग्रहणमेकसामायिकमर्थावग्रह इति भावः, तथेत्यानन्तर्ये, विचारणं-पर्यालोचनमर्थानामित्यनुवर्तते, ईहनमोहा, तां यते इति योगः, किमुक्त' भवति ? अवग्रहात्तीर्णोऽपायात्पूर्वः सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्यागाकाङ्क्षी मतिविशेष इति, विशिष्टोऽवसायो निश्चयोऽवगम इत्यनर्थान्तर व्यवसायम, अर्थानामिति
वर्तते अवाय त्रुवते इति संसर्गः, अयमर्थ :- शांख एवाय शब्द इत्याद्यवधारणात्मकप्रत्ययोऽवायः, चोऽवधारणे, || व्यसायमेवाय' त्रुवते इति धृतिर्धारणम् , अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिवासनास्मृतिरूप धरणं
गाथा-३
॥१७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org