________________
श्रीरसुन्दर आव० अवचूर्णिः
।।१९९ ।।
Jain Education International
पढमो अकालमच्चू तहि तालफलेण दारओ पहओ ।
कण्णा य कुलगणं सिट्ठे गहिआ उसहपत्ती ॥१९४॥
भगवतो देशोनवर्षकाले एव किञ्चिन्मिथुनकं सञ्जातापत्यं सत् तदपत्यमिथुनकं तालवृक्षस्याधो विमुच्य सिया कदलीगृहादिक्रीडागृहमगमत् तस्माच्च तालवृक्षात् पवनप्रेरितं पक्वं तालफलमपतत् तेन दारकोऽकाले मृतः एष प्रथमोऽवससर्पिण्यामकालमृत्युः, तदपि मिथुनकं तां दारिकां वर्द्धयित्वा प्रतनुकषायं मृत्वा सुरलोके समुत्पन्न, तां चोत्कृष्टरूपां दृष्ट्वा मिथुनका नामिकुलकराय न्यवेदयन्, शिष्टे च कथिते कन्या ऋषभपत्नी भविष्यतीति कुलकरेण गृहीता ॥ १९४ ॥
भोगरुमत्थं नाउं वरकम्मं तस्स काति देविंदो ।
दुहं वरमहिलाणं वहुकम्मं कासि देवीओ ॥ १९५॥
भोगसमर्थ" ज्ञात्वा तस्य वरकर्म देवेन्द्रोऽकार्षीत्, द्वयोवरमहिलायोः - नन्दासुमङ्गलयोर्वधूक देण्यो - देवेन्द्राग्रामहिष्योऽकार्षुः || १९५|| अपत्यद्वारमाह
छप्पुव्वसय सहस्सा पुर्वि जायस्स जिणवरिंदस्स । तो भरभिसुंदरिबाहुबली चेव जायाई ॥१९६॥
For Private & Personal Use Only
गाथा - १९
९५-९
॥ १९९॥
www.jainelibrary.org