SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ S श्रीधीरसुन्दरसू० आव०अवचणिः ॥१९३॥ दर्शन सम्यक्त्वं विनयो ज्ञानादिविनयो दशवकालिकोक्तस्तयोनिरतिचारस्तीर्थकरकर्म बध्नाति, एवमग्रेऽपि, आवश्यकं-अवश्यकर्तव्यं संयमव्यापाररूपं प्रतिक्रमणादि तस्मिश्च, शीलानि च व्रतानि च शीलवतं, शीलानि-उत्तरगुणा व्रतानि-मूलगुणास्तेषु वाऽनतिचारः, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनादितः, तपो बाह्याभ्यन्तरभेदभिन्न तत्प्रवृत्तितः, त्यागो द्विधा-द्रव्यत्यागः-सावूनां भक्तपानादिदानं, भावत्याग:-क्रोधादीनां वा, यतिजनेभ्या वितरग, द्विविधस्यापि त्यागस्य प्रवृत्तितः, वैयावृत्य-आचार्य-उपाध्यायस्थविरतपस्विग्लानशैक्षफसार्मिककुलगुणसयभेदाइशधा, एकैकं त्रयोदशविध भक्तपानासनानां दानं ३ उपकरणप्रत्युपेक्षा ४ पादप्रमार्जनं ५ वस्त्र ६ भैषजयोनिं ७ अध्वनि साहाय्य ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतो प्रविशतां दण्डकग्रहणं १० कायिकमात्र ११ संज्ञामात्र १२ श्लेष्ममात्राणां समर्पण १३, एवंविधे वैयावृत्ते सति बध्यते, समाधिश्च गुर्वादीनां कार्यकरणद्वारेण स्वस्थतापादनं तस्मिन् सति ॥१८०॥ अप्पुब्वनाणगहणे सुयभत्ती पवयणे पभावणया । एएहि कारणेहिं तित्थयरत्तं लहइ जीवो ॥१८१॥ अपूर्वज्ञानस्य ग्रहणे सति श्रुतभक्तिर्विवक्षितकर्मबन्धहेतुः, प्रवचनप्रभावनता, सा च यथाशक्तिप्रवचनार्थोपदेशरूपो, क्वापि सङ्कटे महाप्रभावदर्शनेन ॥१८१।। गाथा-१८० ।।१९३॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy