________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१८८
दिच्छेद आदिशब्दाच्छिरःकर्तनादिग्रहः, सापि एताश्रतस्रोऽपि यथाक्रममल्पगुरुगुरुतरगुरुतमापराधविषयाः, आधे नीती ऋषभनाथेनैवोत्पादिते. अन्ये तु माणवकनिरुत्पन्ने इति, भरतस्य चतुर्विधा नीतिरभृदित्यर्थः, हारिभद्रीयवृत्तौ तु चतुर्विधापि भरनेनैव प्रवर्तितेति मा०३॥ अथ पाक मूचितमिक्ष्वाकुवंशमाह
नाभी विणीअभूमी मरुदेवी उत्तरा य साढा य ।
राया य वइरणाहो विमाणसवट्ठसिद्धाओ ॥१७०॥ इयं नियुक्तिगाथा प्रभूतार्थवती, अस्यां च प्रतिपदं क्रियाध्याहारः कार्यः, नाभि कुलकरोऽभूत् , तस्य विनीता भूमी प्रायोऽवस्थानमासीत्. मरूदेवी तस्या भार्या, राजा च प्राग्भवे वैरनामः सन् प्रव्रज्यां गृहीत्वा तार्थकुनामकर्म बद्धवा मृत्वा सर्वार्थसिद्धिमवाप्य ततश्च्युत्वा तस्य मरुदेव्यास्तस्यां विनीताभूमौ ऋषभनाथः सञ्जातः, तस्योत्तराषाढानक्षत्रमासीत् ॥१७०॥ अधुना यः प्राग्मवे बज्रनाभो यथा च तेन सम्यक्त्वमा यावतो वा भवान् प्राप्तसम्यक्त्वः संसार' पर्यटितो तथा च तेन तीर्थकन्नामगोत्रं बद्धमित्यमुमेवार्थमाह
धणसत्थवाह घोसण जइगमण अडविवासठाणं च । बहुवोलीणे वासे चिंता घयदाणमासि तया ॥१७१॥
गाथा-७०-८
॥१८८॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org