________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१५॥
विशेषाभावात् , एवं यावच्चरमसमयेऽपि, अथ चरमसमयेऽर्थावग्रहरूपज्ञानं जायमानमुपलभ्यते, ततः प्रागपि क्वापि कियती मात्रा प्रतिपत्तव्या, यथा-सिकताकणे तैलं नास्ति ततः समुदायेऽपि नोपलभ्यते, अस्ति च चरमसमये प्रभृतशब्दादिसंपर्के ज्ञान' ततः प्राक्तनेषु समुदायेषु स्तोकं स्तोकतरं ज्ञेयं, अन्यथा चरमसमयेऽपि न स्यात् , ततः स्थितमेतद् व्यंजनावग्रहो ज्ञानरुपः, परं तद् ज्ञानमव्यक्त' ज्ञेयं, स चतुर्विधस्तद्यथा-श्रोत्रेन्द्रियव्यंजनावग्रहः, ध्राणेन्द्रिय. व्यं. जिहवेन्द्रियव्यं० स्पर्शनेनियव्य
ननु पंचस्विन्द्रियेषु सत्सु षष्ठे च मनसि कम्मोदय चतुर्विधः ?, उच्यते,इह व्यंजनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च परस्पर संबध उच्यते, संबंधश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोऽरप्राप्यकारिवात , कथमप्राप्यकारितेति चेदुच्यते. विषयकृतानुग्रहोपघाताभावात् , यदि पुनः प्रोप्तमर्थ चक्षुर्मनो वा गहीयातहि यथा स्पर्शनेन्द्रियं सकचंदनादिकमंगारादिकं च प्राप्तमर्थ परिच्छिन्दत्तत्कृतानुग्रहोपघातभाग भवति तथा चक्षुर्मनसी अपि भवतां, न च भवतः, तस्मादप्राप्यकारिणीति, ननु चक्षुषोऽनुग्रहोपघातौ शशांकसूर्यविलोकनात् , एतजाडयविलसितं, यतो वयं न बमः सर्वथा चक्षुपोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्त चक्षुर्गहणाति इत्येवाभिदध्महे, विषयकृतानुग्रहोपघातासंभवेऽपि तत्परिच्छेदभावात् , प्राप्तेन तूपघातकेनौपघातो भविष्यति, अनुग्राहकेण चानुग्रहः तत्रांशुमालिकिरणाः सर्वत्रापि प्रसांति नात्र विसंवादः, ततस्ते चक्षुःप्राप्ताः संतः स्पर्शनेन्द्रियमिव चक्षुरप्युपध्नन्ति, शीतांशुरश्मयस्तु स्वभावत एव शीतलत्त्वादनुग्राहकास्ततस्ते चक्षुरनुगृहणन्ति, तरंगमालासंकुलजलावलोकने (पा. च जलकण
गाथा-३
॥१५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org