________________
श्रीरसुन्दर आव ० अवचूर्णिः
॥१४॥
Jain Education Inten
अत्थाणं ओगहणंमि उग्गहो तह वियारणे ईहा । सायंमि अवाओ धरणं मिय धारणं विति ॥३॥
अर्यंते-गम्यंते, परिच्छिद्यन्त इत्यर्थाः, स्वरूपादयस्तेषामर्थानां प्रथमं दर्शनानंतरं ग्रहणमवग्रहणमवग्रहं ब्रुवते इति योगः । ननु वस्तुनः सामान्य विशेषात्मकतयाऽविशिष्टत्वात्किमिति प्रथमं दर्शनं न ज्ञानमिति ?, उच्यते, तस्य प्रबलावरणाचादर्शनस्यालूपावरणत्वात् स च द्विधा - व्यंजनावग्रहोऽर्थावग्रहश्च तत्र व्यंजनावग्रहपूर्वकोऽर्थावग्रह इति व्यंजनावग्रहः प्रयमं प्रतिपाद्यते व्यंज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यंजनं तच्चोपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्पर संबंधः, संपृक्तिरित्यर्थः, संबंधे हि सति सोऽर्थः श्रोत्रादींद्रियेण व्यक्तुं शक्यते, नान्यथा, ततः संबंधो व्यजन, व्यंजनेन संबंधेनावग्रहण संबंध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यंजनावग्रह इति, अथवा व्यंज्यते इति व्यंजनानि, कर्मण्यनट्, व्यंजनानां शब्दादिरूपतया परिणतानां द्रव्याणां उपकरणेन्द्रियसंप्राप्तानामवग्रहः अव्यक्तरूपः परिच्छेदो व्यंजनावग्रहः, अथवा व्यंजनमुपकरणेन्द्रिय, शब्दादिपरिणतद्रव्यसंघातो वा ततश्च व्यंजनेनउपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यंजनानामवग्रहो व्यंजनावग्रहः स चान्तर्मुहूर्तप्रमाणः,
ननु व्यंजनावग्रहवेलायां न किमपि संवेदन संवेदयामहे तत्कथमसौ ज्ञानरूपो गीयते १, उच्यते, अव्यक्तत्वात् न संवेद्यते, ततो न कश्चिद्दोषः, अस्तित्वे किं प्रमाणमिति चेदुच्यते, अनुमानं, तथाहि यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्याणामुपकरणेन्द्रियस्य च परस्परसंपृक्तौ काचिदपि ज्ञानमात्रा न भवेत्तता द्वितीयेऽपि समये न स्यात्,
For Private & Personal Use Only
गाथा - ३
॥१४॥
Finelibrary.org