________________
श्री धीरसुन्दरम् ० अवचूर्णि
॥१३॥
अवग्रहणमवग्रहः, अनिर्दिश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, ईहनमीहा, सद्भूतार्थपर्यालोचनचेष्टा, किमुक्त' भवति? अवग्रहादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यामाभिमुखः, प्रायोऽत्र मधुरस्वादयः शांखादिशब्दधर्मा दृश्यन्ते, न निष्ठुरताद्रयः, शांर्गादिशब्दधर्मा इत्येवं मतिविशेष ईहा, तस्यैवावगृहीतस्येहितस्य चार्थस्य निर्णय रूपोऽध्यवसायः शंख एवायं शाङ्क एवायमित्यादिरूपोऽवधारणात्मकप्रत्ययोपायः च शब्दः पृथक् पृथगवग्रहाहादिस्वरूप स्वातंत्र्यदर्शनार्थः, अवग्रहादीनामीहादयः पर्यार्या न भवन्तीत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा चत्रिधा अच्युतिर्वासनास्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा, ततस्तयाऽऽहितो यः संस्कारः स वासना सा संख्येयमसंख्येयं वा कालं यावद्भवति संख्येयवर्षायुषां संख्येयं 'काल, असंख्येयवर्षायुषां • वासंख्येवमित्यर्थः, ततः कालन्तरे. कुतश्चित्तार्थदर्शनादिकात् कारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेद' यन्मया प्रागुपलब्धमित्यादिरूप सा स्मृतिः, एताश्वाविच्युतिवासनास्मृतयो घरणलक्षणसामान्याऽन्वर्थयोगाद् धारणाशब्दवाच्याः एवं शब्दः क्रमदर्शनार्थ: आर्यत्वाच्च मकारलोपः एवमनेनैव क्रमेण, तथाहि - नानवगृहीतमीह्यते, नखनीतिगते, न चतं धार्यते इति चत्वार्या मिनिबोधिकस्य भिद्यन्ते इति भेदा: - विकल्पास्त एव वस्तुनि वस्तूनि वास्तवभेदा इति भावः समासेन- संक्षेपेण, विस्तरतस्त्वष्टाविंशत्यादिभेदभावात् । अनंतरोपन्यस्तानामवग्र| हादीनां स्वरूप तिपादयिषुरिद्रमाह
Jain Education International
For Private & Personal Use Only
गाथा- २
॥१३॥
www.jainelibrary.org