________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१२॥
द्रव्यश्रुतं-पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रतविषयां शब्दार्थपर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतरूपत्त्वात् यश्च द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, नतु केवलोक्षरलाभः, केवलो ह्यक्षरलाभो मतावपीहादिरूपायां भवति, न च श्रुतं, वल्कसमं मतिज्ञानं, कारणत्वात् , शुम्बसमं श्रुतं तत्कार्यवात् , यथा वल्कशुम्बयोर्भेदस्तथा मतिश्रतयोरपि, इतश्च भेदो मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षर', तस्यानिद्दिश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पकत्वात् , ईहादिज्ञानं तु साक्षर', तस्य परामर्शादिरूपतयाऽवश्यं वारूषिच्यात् , श्रुतं साक्षरमेव, अक्षरमंतरेण शब्दार्थपर्यालोचनाऽयोगात् , इतश्च मतिश्रुतयोर्मेदः- मूककल्पं मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात् , अमूककल्पं श्रुतं, स्वपरप्रत्यायकत्वादिति । मतिश्रुतानंतरं च कालविपर्ययादिसाध
ादवघेरुपन्यासः, तदनंतरं च छद्मस्थविषयभागदिसाधान्मनःपर्यायोपन्यासः, तदनंतरं च भावमुनिस्वाम्यादिसाधर्म्यात्सर्वोत्तमत्त्वाच केवलोपन्यासः, आभिनिबोधिकं द्विधा-श्रुतनिश्रितमतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते तत् श्रुतनिश्रितमवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावात, एवमेव यथास्थितवस्तुसंस्पशि मतिज्ञानमुपजायते तदश्रुतनिश्रितमौत्पत्यादि, तत्र श्रुतनिश्रितमतिज्ञानस्वरूपदर्शनायाह
उग्गह ईहाऽवाआ य धारणा एव हंति चत्तारि । अभिणियोहियनाणस्ल भेववत्थू समासेणं ॥२॥
गाथा-२
॥१२॥
Jain Education Intern
For Private & Personal use only
linelibrary.org