________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१७८॥
स ग्रामचिन्तकः सुविहितानामनुकम्पया-परमभक्त्या तेभ्यः सम्यक्त्वं लब्ध्वा च भास्वरा-दीप्तिमतीं वरां-प्रधानां बोन्दी-तनु धारयति भास्वरवरबोन्दिधरः देवो वैमानिको जात इति. निक्तिगाथार्थः ॥१४७।।
देवलोकात्स्वायुः क्षये च्युत्वा इहैव भारतवर्षे इक्ष्वाकुकुले जात:-उत्पन्नः ऋषमसुतसुतो मरीचिरिति नाम्ना, सामान्येन ऋषभपौत्रः ॥१४८॥ यत एवमत:
इक्खागकुले जाओ इक्खागकुलस्स हाइ उप्पत्ती ।
वुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥१४९॥ इक्ष्वाकूणां बुलं इक्ष्वाकुकुलं तस्मिन् जातः-उत्पन्नः भरतस्य सुतो मरीचिरिति योगः, पूर्व सामान्ये ऋषभपौत्रत्वाभिधाने सतीदं विशेषाभिधानमदुष्टमेव, स च कुलकरा वक्ष्यमाणास्तेषां वंशः-प्रवाहस्तस्मिन्नतीतेअतिक्रान्ते जातः, यत एवं तत इक्ष्वाकुकुलस्य भवति उत्पत्तिर्वाच्येति शेषः शेऽतत्र कुलकरवंशऽतीते इत्युक्तम् ।।१४९।। अतः प्रथमं कुलकराणामेव यस्मिन् काले क्षेत्रे च प्रभवस्तदाह
ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे । पलिओवमट्टभाए सेसंमि उ कुलगरुप्पत्ती ॥१५०॥
गायी-१६
॥१७८
Jain Education International
For Private & Personal use only
www.jainelibrary.org