________________
श्री चोरसुन्दरसू० आव० अवचूर्णिः ॥१७५॥
Jain Education International
असमान लिङ्गनिर्देष्टाऽस्यावस्त्वेव यदा पुमान् पुमासं खियं चाह कुास्तस्य पुरुषता ? स्त्रीविज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुपस्त्रीत्वापत्तेः, अन्यथा वस्त्वभावार ङ्गात् तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वातन्मय एव तन्मयत्वाच्च तत्समानलिङ्गनिद्देशः, ततश्च सामायिकवक्ता तदूपयोगानन्यत्वात्सामायिकं प्रतिपादयनात्मानमेवाह, यतस्तस्मात्तस्य समानलिङ्गभिधान एवामी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वास्त्रियः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्ग निर्देश एव, अमूनि च सर्वनयमतानि समुदितानि प्रमाणं ||| १४४ || निर्गमरूपं तृतीयद्वारमाह
नाम ठवणा दविए खित्ते काले तव भावे अ ।
एसो उनग्गमस्स णिक्खेवा छव्विहो होइ ॥ १४५ ॥
द्रव्यनिग्रमः मचित्ताचित्तमित्रभेदभिन्नः, तत्र सचित्तात्स चित्तस्य यथा भूमेरकुरस्य, मिश्रस्य यथा पतङ्गस्य, अचित्तस्य यथा वाष्पस्य तथा मिश्रात्सचेतनस्य यथा देहात्कुमिकस्य मिश्रस्य यथा स्त्रीदेहाद् गर्भस्य, अचित्तस्य यथा देहाद्विष्ठायाः, अचित्तात्स चित्तस्य यथा काष्ठात्कृमिकस्य, मिश्रस्य यथा काष्टोद् घुणकस्य, अचित्तस्य यथा काष्ठाद् घुणचूर्णस्य, कालनिर्गमः कालो ह्यमूर्त्तः, तस्य तथाप्युपचारतो वसन्तस्य निर्गम इत्यादि, भाव निर्गमः पुद्गलाद्वर्णादिनिर्गमो जीवात् क्रोधादि निर्गमः, तयोर्वा पुद्गलजीवयोर्वर्णविशेषः
For Private & Personal Use Only
गाथा - १४५
॥१७५
www.jainelibrary.org