________________
गाथा-१४४
श्रोधोरसुन्दरसू० आव० अवणिः
॥१७४॥
दर्शना इत्यादि, निर्देशकवशाच्च यथा मनुना प्रोक्तो ग्रन्यो मनुः, लोकोत्तरेऽपि निर्देशवशाद्यथा षड्जीवनिका, निर्देशकवशाज्जिनवचनं कापिलीयमित्यादि, एवं सामायिकमर्थरूप रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुनपुंसकलिङ्गत्वात्तत्परिणामानन्यत्वाच्च सामायिकस्यार्थरूपस्य स्त्रीपुनपुंसकलिङ्गत्वाविरोधमपि मन्यते नगमः, तथा निर्दिष्ट वस्त्वङ्गीकृत्य सङ्ग्रहो व्यवहारश्च निर्देशमिच्छतीति वाक्यशेषः, अ भावना-वचन ह्यर्थप्रकाशकमेवोपजायते प्रदीपवद्यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेवात्मरूपं प्रतिपद्यते, एवं धनिरपि अर्थ प्रतिपादयन्नेवात्मरूप प्रतिपद्यमानः अर्थादात्मलाभ लभते इति व्यवडियते, तस्मान्निर्दिष्टवशान्निर्देशप्रवृत्तिः, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदङ्गीकृत्य सङ्ग्रहोव्यवहारश्च नपुसक निर्देशमिच्छति, अथवा सामायिकवतस्त्रिलिङ्गत्वात्तत्परिणामानन्यत्वाच सामायिकार्थस्य त्रिलिङ्गतामपि मन्यते, तथा निर्देशकसचमङ्गीकृत्य सामायिक निर्देशमृजुसूत्रो मन्यते वचनस्य वक्तुराधीनत्वात्तत्पर्यायत्वात्तद्भावभावित्वाच्च, ततश्च यदा पुरुषो निर्देष्टा तदा पुल्लिङ्गता, एवं स्त्रीनपुसकयोजनापि कार्या, तथा उभयसदृशंनिर्देश्य निर्देश्यकसदृशं समानलिङ्गमेव वस्त्वङ्गीकृत्य शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, अयमर्थः- सउपयुक्ता हि निर्देष्टा निर्देशादभिन्न एव, तदुपयोगानन्यत्वात् , ततश्च पुसः पुंमांसमभिदधतः पुंनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिद्देश एव, क्लोवस्य क्लोबमभिदधानस्य क्लीवनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्तं तदा स्त्रिया उपयोगानन्यत्वात् स्त्रीप एव.सौं, निर्देश्य निर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्या,
॥१७४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org