SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचर्णिः ॥१६६॥ गाथा-१३७ कस्प न होही वेसो अनभुवगओ अ निरुवगारी अ। अप्पच्छंदमईओ पट्ठिअओ गंतुकामो अ ॥१३७॥ ___ कस्य गुगेर्न भवति द्वेष्यः-अप्रीतिकरः १, अपि तु भविष्यत्येव, अनभ्युपगतः श्रुतसम्पदो, अनिवेदितात्मेतिभावः, उपसम्पन्नोऽपि न सर्व एवाद्वेष्य इत्याह-निरुपकारी च गुरूणामनुपारको गुरुकृत्येष्वप्रवर्तकः, उपकार्यपि न सर्व एवाद्वेष्य इत्याह-आत्मच्छन्दा-ओत्मायता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिकः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्य इत्याह-प्रस्थितो योऽन्यः कोऽपि शिष्यो गन्तुमनास्तस्य द्वितीयः, गन्तुकामश्च सदैव गन्तुमना व्यवतिष्ठते, वक्ति च कोऽस्य गुरोः सनिधावतिष्ठते ?, समर्थ्यतामेतत् तस्कन्धादि ततो यास्यामीति, तदेवम्भूतः शिष्यो न योग्यः श्रवणस्य ॥१३७॥ अथ गुणानाह विणओणएहिं कयपंजलीहि छंदमुवुअत्तमाणेहिं । आराहिओ गुरूजणो सुयं बहुविहं लहुं देइ ॥१३८॥ विनयावनतैः पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, छन्दो-गुवभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसित भद्धानसमर्थनकरणकारणादिनाऽनुवर्तमानैः, श्रुतं-सूत्रार्थोभयरूप' लघु-शीघ्र ॥१३८॥ अथ प्रकारान्तरेण शिष्यपरीक्षामाह ॥१६६॥ neibrary.org Jain Education Intemla For Private & Personal use only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy