________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१६५॥
राजकुले व्यवहारः, कारणिकैरुक्ता सा अस्माकमेव पश्यताममूनि परिधाय दर्शय, सा चानभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति, यदपि स्थाने युक्ने तदप्यश्लिष्टमेवाभाति, अन्यया परिहितानि शोभन्ते च, ततो दण्डितोऽङ्गनिग्रहेण रोज्ञा जीर्णश्रेष्ठी, तत्सुता चानर्थभाग जाता, एवमस्थानेर्थानां नियोक्ता न गुरु पि शिष्यो योग्यः ३, श्रावकोदाहरणं-प्राग्वन्नवरमुपसंहारः 'चिरसंचिअपि न सरइ सुत्तत्थ सावगो सभज्ज व । जो न स जुग्गो सीसो गुरुत्तणं तस्स दूरेण ॥१॥ वि.१४४२॥ ४, बधिरोदाहरण-प्राग्वदुपसंहारस्तु-"अन्न पुट्ठो अन्न जो साहइ सो गुरू न बहिरोव्व । न य सीसो जो अन्न सुणेइ अणुभासए अन्नं ॥१॥" ५, एवं गोदोहोदाहरणोपसंहारोऽपि वाच्यः ६, टकणव्यवहारोदाहरणं-इहोत्तरापथे टकण नाम म्लेच्छाः, दक्षिणपथादायातवस्तूनि गृहणन्ति, मिथो भाषां न जानते, एके पण्यपुञ्ज अन्ये कश्चनं मुश्चति, इच्छापूतों गृहणन्ति, नान्यथा, एषामिष्टः प्रतीष्टश्च व्यवहारो, यथा-"एवं अवखे निन्नयपसंगदाणगहणाणुवत्तिणो दोवि । जुग्गा सिस्सायरिया टंकणवणिओवमा एमा ॥१॥" इत्यं गवादिषु द्वारेषु साक्षादमिहितार्थ विपर्ययः प्रतिपक्षः, स आचार्य शिष्ययोर्यथायोग्य योज्यः, स च योजित एव ।।१३६॥ अथ गाथाद्वयेन विशेषतः शिष्यदोषगुणानाह-ननु शिष्यदोषगुणानां विशेषाभिधानं किमर्थ ? उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात् , अयोग्याय च गुरुपदविधाने तीर्थ कराज्ञालोपप्रसङ्गात्
गाथा-१३६
।।१६५।।
Jain Education International
For Private & Personal use only
wwww.ininelibrary.org