________________
श्रीधीरसुन्दरसू० आप०अवचूर्णिः
॥१६४॥
गाथा-१३६
तत्र गोदृष्टान्तः, एते चाचार्य शिष्ययोः संयुक्ता दृष्टान्ताः. एक आचार्यस्यैकः शिष्यस्य, द्वौ वैकस्मिन्नवधार्यते, एकेनैकस्य धूर्तस्य पार्थानो रोगिणी उत्थातुमप्यसमर्था निविष्टव कीता, घूत्तों नष्टः, क्रेताऽपि यावत्तामुत्थापयति तोवन्न शक्नोत्यसौ, ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा, क्रेता तामुत्थापयितुं न ददातिवक्ति च मयोपविष्टैव चेयं गृहीता त्वमपि तथैव गृहाण, एवं यः आचार्यः पृष्टः परिहारानन्त दातुमशक्ती भणति-मयाऽप्येवं श्रुत यूयमप्येवं श्रृणुत, तत्पाशुं न श्रोतव्यं, यः पुनरविकलगोविक्रयिकवदाक्षेपनिर्णयप्रनिर्णयेप्रसङ्ग परस्तत्पार्श्वे श्रोतव्यं, शिष्योऽपि योऽविचारितग्राही प्रथमगोक्रयिक इव सोऽयोग्योऽन्यस्तु योग्यः ? चन्दनकन्थोदाहरणं-यथा कृष्णस्य तुष्टेनामरेणाशिवोपशमिनीचन्दनमयी मेरी दत्ता, सा षट्पड्मासपर्यन्ते वाद्यते, तच्छब्दः श्रोतुरतीतमनागतं च प्रत्येकं पाण्मासिकमशिवमुपशाम्यति, तत्रान्यदागतस्य वणिजो दाहज्वरातस्य लक्षमूल्यलोभेन मेरीपालकेन पलमात्रं छित्वाऽदायि, तत्रान्यचन्दनखण्ड दत्त, सा कालेन चन्दनकन्था जाता, कार्याऽक्षमां तां ज्ञात्वा कृष्णेन तं भेरीपालकं हत्वाऽष्टमभक्तेन सुरमाराध्यान्यां लात्वाऽन्यभेरीपालकः कृतः, स तां यथावद्रक्षति, ततः स इष्टः, ततः एवं यः शिष्यः सूत्रमर्थ वा परमतेन स्वकीयेनैव ग्रन्थान्तरेण वो मिश्रयित्वा कन्थीकरोति सोऽनुयोगश्रवणस्य न योग्यः, एवं कन्थीकृतसूत्रार्थों गुरुरष्यनुयोमभाषणस्य न योग्यः, किन्त्वविनाशितसूत्रोर्थाः शिष्याचार्या अनुयोगस्य योग्याः २ चेट्यौः जीर्णाभिनवश्रेष्ठिपुत्रिके तदृष्टान्तः, यथा वसन्तपूरे जीर्णश्रेष्ठिसुताऽभिनवश्रेष्ठिसुताया जलाशये स्नान्त्या आभरणानि जग्राह, ममैवैतानि इति सा बक्ति,
॥१६४॥
For Private & Personal Use Only
ainelibrary.org
Jain Education Intel