________________
श्रीधीरसुन्दरसू० आर०अवचूणिः ॥१५७॥
अणुओगो य नियोगो भास विभासा य वत्तियं चेव ।
अणुओगस्स उ एए नामा एगहिआ पंच ॥१३१॥ सूत्रस्यार्थेन सहानुकूल' योजनमनुयोगः, यथा घटशब्देन घटोऽभिधीयते, नियतो निश्चितो वा योगःसम्बन्धी नियोगः, यथा घटशब्देन घट एवोच्यते, न पटादिः, भाषणं भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनाद घटः, विविधा भाषा विभाषा-पर्यायशब्दैः स्वरूपकथनं, यथा घटः कुट कुम्भः इति, वार्तिक त्वशेषपर्यायकथनं, एतान्यनुयोगस्यैकार्थिकानि नामानि, अयं समुदायार्थोऽवयवार्थ प्रतिद्वारं च वक्ष्यति तत्र, प्रवचनादीनामविशेषेण एकार्थिकाभिधानप्रक्रमे सत्येकाथिकानुयोगादेमें देनान्वाख्यानमर्थगरीयस्त्वख्यापनार्थम् ॥१३१।। तत्रानुयोगाख्यमाद्यद्वारमाह
नामं ठवणा दविए खित्ते काले य वयण भावे य ।
एसो अणुओगस्स उ णिक्खेवो होइ सत्तविहो ॥१३२॥ ___नामानुयोगो-यस्य जीवादेग्नुयोग इति नाम क्रियते, नामव्याख्या वा, स्थापना-अक्षनिक्षेपादिरूपा, तत्र | योऽनुयोगं कुर्वन् स्थाप्यते सोऽनुयोगानुयोगवतोरभेदोपचारात स्थापनानुयोगः, यत्र क्षेत्र काले वाऽनुयोगस्तयो
गाथा-१३१-३
॥१५७॥
For Private & Personal Use Only
Jain Education Interational
wow.jainelibrary.org