SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरसू० आव० अवचर्णिः ॥१४९॥ Jain Education International अण-मिच्छ - मोस - सम्मं, अटु नपुंसित्थीवेय-छक्कं च । पुंवेयं च खवेड़ कोहाइए य संजलणे ॥१२१॥ इह क्षपकश्रेणिप्रतिपत्तासंयतादीनामन्यतमोऽत्यन्त विशुद्धपरिणामः स्यात् स चोत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यने, अपरे धर्मध्यानोपगता एव क्रमश्रायम् - प्रथममनन्तानुबन्धिनश्चतुरोऽपि क्रोधादीन् अन्तर्मुहूर्त्तेन युगपत् क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्व, सहैव तदशेन युगपत् क्षपयति, यथाहि - अतिसम्भृतो दवानलः खल्वर्द्धदग्धेन्धन एवेन्धनान्तरमासाद्य उभयमपि दहति एवमसावपि क्षपकस्तीत्रशुभ परिणामत्वादशेपमन्यत्र प्रक्षिप्य क्षपयति, तदनन्तर तथैव मिश्र, ततः सम्यक्त्व, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुचधिक्षयानन्तरं च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यादर्शनोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजम्य मिय्यात्वस्य सद्भावात् क्षीण मिथ्यादर्शनस्तु न उपचिनोति, मूलाभावात् तदवस्थच मृतोऽवश्य' त्रिदशेषृत्पद्यते, क्षीणसप्तकोऽप्यप्रतिपतितपरिणाम स्त्रिदशेष्वेव प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथापरिणामं सर्व गतिभाग् स्यात् बद्धायुष्कोऽपि यदि तदानी काल न करोति, तथापि सप्तके क्षीणे नियमादवतिष्ठते, न चारित्रमोहक्षपणाय यतते, ननु यदि दर्शनत्रिकमपि क्षयं नीतं ततः किमसौ सम्यग्दृष्टिरुतासम्यग्दृष्टिः १ उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत न, अभिप्राया , For Private & Personal Use Only गाथा - १२१ ।।१४९ । www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy