________________
गाथा-११७-१८
श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥१४७॥
सज्वलनलोभस्याणून् संख्येयतमस्य खण्डस्यासंख्येयानि प्रतिसमयमेकैकं खण्ड' वेदयन् य उपशामकः क्षपको वा स्यात् सोऽन्त मुहूर्तकाल सूक्ष्मसम्परायो भण्यते. अयं च यथाख्यातात्किञ्चिदूनः, किमुक्त' भवति ? सूक्ष्मसम्परायावस्थामन्तर्मुहूर्त्तमात्रकालमानमनुभूय उपशामकनिग्रन्थो यथाख्यातचारित्री स्यात् , इह यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवर्ती उपशान्तमोहो वा भूत्वा काल' करोति तदा नियमेनानुत्तरसुरेपू पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनात् , अथावद्धायुस्तहि अन्तमुहूर्तमुपशान्तमोहो भूत्वा नियमतः पुनरप्युदितकषायः कावन्येन श्रेणिप्रतिलोमम वर्तते ॥११७।। तथा चैतदेव दुरन्तकपायसामर्थ्यमुत्कीर्तयन्नाह
उवसामं उवणीआ गुणमहया जिणचरित्तसरिसंपि ।
पडिवायंति कसाया किं पुण से से सरागत्थे ? ॥११८।। उपशमं अपेः क्षयोपशममपि उपनीताः गुणेमहान गुणमहान तेन गुणमहत्ता उपशमकेन प्रतिपातयन्ति कपायाः संयमात् संसारे वा, कं ? तमेवोपशामकं; किंविशिष्ट ? जिनचारियोण सदृशमपि द्वयोरपि कषायोदयरहितचारित्रयुक्तत्वात् , किं पुनः शेषान् सरागस्थान् ?, सुतगं प्रतिपातयन्ति, यथा भस्मछन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति एवमसावप्युदितकपयानलो जघन्यतस्तद्भवे एव मुक्ति न लभते, उत्कृष्टतस्तु
॥१४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org