________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१४॥
वारसविहे कसाए खइए उवसामिए व जोगेहिं ।
लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥११३॥ द्वादशविधेऽनन्तानुबध्यादौ कषाये क्षपिते विध्याताग्नितुलयतां नीते उपशमिते भस्मच्छन्नाग्निकल्पता प्रापिते, वा शब्देन क्षयोपशम वाद्धविध्याते अलनममतामुपनीते योगैः-मनोवाकायलक्षणैः प्रशस्तैहे तुभृतः लभ्यते चारित्रलाभः, तस्य चारित्रस्य विशेषा-भेदा इमे वक्ष्यमाणाः पञ्च ॥११४|| तान् गाथाद्वयेनाह
सामाइगं च पढमं छेओवट्ठाणं भवे बीयं ।
परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥११४॥ समानां-ज्ञानदर्शनचारित्राणां आयः समायस्तेन निवृत्तं तत्र भव वा सामायिक-सर्व सावद्ययोगविरतिरूपंततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकं, तथापि छेदादिशेपैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्व भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच द्विधा-इत्वर यावत्कथिकं च, तत्र स्वल्पकालमित्वर, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितमहाव्रतस्य शैक्षस्य ज्ञेयं, यावकथिकं प्रवज्याप्रतिपत्तिकालादारभ्याप्राणोपरमादित्यर्थः, तच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरतीर्थेषु महाविदेह
गाथा-११३-१
॥१४॥
Jain Education Intematonal
For Private & Personal Use Only
www.jainelibrary.org