________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः ॥१३९॥
Jain Education International
सर्वतो वा प्रत्याख्यानं येषु उदय प्राप्तेषु ते प्रत्याख्यानाः सर्वनिषेधवाची नञ् त एव नामधेयं येषां ते प्रत्याख्याननामधेयास्तेषां उदये सम्यग्दर्शनलाभ' भव्याः लभन्ते इति वाक्यशेषः, अयं च वाक्यशेषस्तुशब्दसूचितो ज्ञेयः विरताविरति - देशविरतिमित्यर्थः न तु लभन्ते, तुशब्दात् सम्यग्दर्शन लभन्त इत्युक्तमेव ।। १०९ ।। तयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं । देसिकदेस विरहं चरितलंभ' न उ लहंति ॥ ११०॥
सर्व विरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयकपायाणामुदये प्रत्याख्यानं सर्व विरतिलक्षण तस्यावरणाः प्रत्याख्यानावरणास्ते एव नामधेयं येषां ते तथा तेषां नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीयुक्त, नञ् प्रतिषिद्धत्वात् इहापि चावरणशब्देन प्रत्याख्याननिषेधात् क एषां विशेषः ?, उच्यते, तत्र न सर्वं निषेधे, इह त्वाङ्नर्यादेपदर्थं वचनत्वात् मर्यादया आवृण्वत्यावरणाः, ततः सर्वविरतिनिषेधार्थ एव आवरणशब्दो, न देशविरति निषेधे, तथा चाह - देशश्चैकदेव देशैकदेशो, देशः स्थूलप्राणातिपातः, एकदेश:तस्यैव देशो वनस्पतिकायातिपातः, तयोर्वि रतिस्तां, लभते इति वाक्यशेषः, अत्रापि वाक्यशेषस्तुशब्दाक्षिप्तो ज्ञेयः, चारित्रस्य सर्वविरतिरूपस्य लाभ न लभन्ते || ११ || अमुमेवार्थं सङ्गृह्य विभणिषुश्चतुर्थक पायानाह
For Private & Personal Use Only
गाथा - ११०
॥१३९॥
www.jainelibrary.org